________________
मलय
॥२१४॥
A1-201
39 X တို့မှာ 9 တို့ကို BQ တို့ကိုသ
पुण्यैरस्माकमाकृष्टो यत्तातोऽय समागमत् ॥ ३९ ॥ इति जल्पन्नृपो मुक्त्वा सामग्री पादुकादिकां । स्थितस्तत्रैव पितरं वंदे भूरिभक्तितः ॥ ४० ॥ दृष्टुमुत्कंठितस्तातपादपद्मयुगं नृपः । कृच्छ्रेण गमयामास निशां तां सपरिच्छदः ॥ ४१ ॥ इतः सा कनकवतो पर्यटंती पुरे पुरे । तत्रैव नगरे तस्मिन् समये दुःखितागता ॥ ४२ ॥ तथा केनापि कार्येण गतया तत्र कानने । कायोत्सर्गस्थितो दृष्टः स संध्यासमये मुनिः ॥ ४३ ॥ उपलक्ष्याथ तं सम्यक् चिंतयामास सा भयात् । महाबलः स एवैष सूरपालसुतो व्रती ॥ ४४ ॥ कुत्सितानि समस्तानि मूलाजानात्ययं मम । आविष्कर्त्तात्र चेतानि तद्भविष्याम्यहं कथं ॥ ४५ ॥ तत्करोमि तथा किंचिन्न यथा वेत्ति कश्चन । अन्यथात्र न मे वासः कथंचिन्न च जीवितं ॥ ४६ ॥ एवं सा कनकवती सूत्रयित्वा गता ततः । प्रतीक्षमाणा समयं तस्थौ दुष्टानिजे गृहे ॥ ४७ ॥ स्फुरितेऽथ निशाध्वांते मार्गेषु विजनेषु च । केनाप्यलक्षिता पापा चलिता सा निजाश्रयत् ॥ ४८ ॥ गृहीत्वाग्निं ययौ तत्र सा यत्रास्ति स संयमी । कायोत्सर्गस्थितो मूर्त्त इव धर्मः स्थिराशयः ॥ ४९ ॥ गोपुराणि प्रदत्तानि मुनिकष्टमवेक्षितुं । मिलितानोव नेत्राणि नगरेणा
8044181168488900*88
चरित्रं
॥२९४॥