________________
भीजल्प-
पहारी॥
नयोत्पल इत्यष्टादश व्याकरणानि, एतेषां मध्ये किंनाम व्याकरणमधीतमस्ति ? भवतु या यत्न साध्यन्तां सद्गतप्रयोगा:- अतिर्जरः, अतिरसं, अतिजरं कुलं, भवानरः, भवावेचूशूरः, भवाबूथरः, भवाच्छरः, एते चतुष्कमयोगाः । आख्यातप्रयोगाश्च-असत्, असोत, असनिष्ट, मारिरेमा, मामीमिलिर, (२) असीदाम, अर्घाः, अस्यिाः इत्यादिकियाप्रयोगा। साहित्ये चेत्, केके साहित्यग्रन्था मन्थानकल्पानल्पस्वबुद्धा दधिवदवगाहिताः ? तमामानि यथा-सदोश्रयदाश्रय-शश्यकविरहस्य-विदग्धखमण्डन-पद्मानन्दकाव्य-महानन्दकाव्य-रघु-माघ-नैषध-कुमारसंभव-कविशिक्षा-मेघदूत-नेमित-चेतोदूत-मुरारिनौटक-मुद्रितकुमुदचन्द्रनाटक-रङ्गमङ्गलनाटक-दूताड्दनाटक-प्रमरतिनाटक-मोहपराजयनाटक-करुणावज्रायुधनाटक-जिनशेतक-विहारशतक-सूर्यशेतक-सोमशेतक-अमरुशतक-मुकृतसङ्कीर्तन-रामरमणकलि-खणेप्रशस्ति-कीचिकौगदी प्रमुखग्रन्था निजनिर्मलमज्ञापरिज्ञानमुकुरान्तः सङ्क्रामिताः श्रीमद्भिर्विदूच्चक्रशनः ? । छन्दः शाने चेदतीव परिचयस्तर्हि श्रूयन्तां तद्ग्रन्थनामानि,-छन्दोऽनुशासन-वृत्तरत्नाकर-अलङ्कारचूडामणि-वाग्भट्टालङ्कार-काव्यप्रकाश-तत्संकेत-कविशिक्षापरिमलादयोऽन्येऽपि बहवः । ज्योतिः शास्त्रे चेत् रत्नमाला-मुहूर्तगार-वारोहीसंहिता-नारचन्द्र-नरेपतिजयचर्या-त्रैलोक्यप्रकाश-भुवनदीपकखण्डखाय-करणेकुतूहलादयो भूयांसोऽपि ज्योतिर्ग्रन्थाः। तर्के चेत् युष्माकमायुष्मता शेमुषी विशेषसंमुखीनखमासेदुषी तदा पणां दर्शनानां स्वरूपं निरूप्यतां । तद्यथा" बौद्धं नैयायिकं साडूख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥१॥"
नोर-नौजचशौ जशविति चतुष्टयरुपाणामिः तुक छत्वं चतोयानां विकल्पनात् ।।