________________
SAMAKALAKARKALANKAR
विप्राणां पुरतः कृत्वा, परमात्मविचारणाम् । उपेत्योपवनं मित्रमवादीत् खचराङ्गजः ॥ ७७५ ॥ श्रुतो मित्र! त्वया देवविशेषः परमं मतः (परसंमतः) । विचारणाऽसहस्त्याज्यो, विचारचतुराशयः ॥७७६।। सर्वत्राष्ट गुणाः स्याता, देवानामणिमादयः। यस्तेषां विद्यते मध्ये, लघिमा स परो गुणः ॥७७७॥ पार्वतीस्पर्शतो ब्रह्मा, विवाहे पार्वतीपतेः। क्षिप्रं पुरोहितीभूय, क्षुभितो मदनार्हितः ॥ ७७८ ॥ नर्तनप्रक्रमे शम्भुस्तापसीक्षोभणोद्यतः। विषहे दुस्सहान्दी (हां नी )तो, लिङ्गच्छेदनवेदनाम् ॥ ७७९ ॥ अहिल्लयाऽमराधीशश्छायया यमपावको। कुन्त्या दिवाकरो नीतो, लघिमानमखण्डितम् ॥ ७८० ॥ इत्थं न कोऽपि देवोऽस्ति, निर्दोषो लोकसम्मतः। परायत्तीकृतो यो न, हत्वा मकरकेतुना ॥७८१ ॥ इदानीं श्रूयतां साधो !, निर्दिष्टं जिनशासने । रासभीयशिरश्छेदप्रक्रमं कथयामि ते ॥ ७८२ ॥ ज्येष्ठ(ठा)गर्भभवः शम्भुस्तपः कृत्वा सुदुश्चरम् । सात्यकेरगजो जातो, विद्यानां परमेश्वरः ॥ ७८३॥ स भन्नो दशमे वर्षे, विद्यावैभवदृष्टितः । नारीभिभूरिभोगाभिवृत्ततः को न चाल्यते ? ॥ ७८४ ॥ खेटकन्याः स दृष्ट्वाष्टी, विमुच्य चरणं क्षणात् । तदीयजनकैर्दत्ताः, खीचकार स्मरातुरः ॥७८५॥ अमुष्यासहमानास्ता, रतकर्म विपेदिरे । नाशाय जायते कार्ये, सर्वत्रापि व्यतिक्रमः ॥ ७८६ ॥ रतकर्मक्षमा गौरी, याचित्वा स्वीकृता ततः। उपाये यतते योऽपि, कर्तुकामो हि कासितम् ॥७८७॥
ॐॐॐॐॐॐॐ