________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
विधिबिलविलसदमलदशशतदलकमलाद् वहन्नासापुटेन निगवं त्रिखण्डामुद्रामण्डितशिखण्डे कुसुमगर्भिते अञ्जलौ समानीय ।
ॐ ऐं ह्रीं श्रीं हों श्रीं सौः श्रीललिताया अमृतचैतन्यमूर्ति कल्पयामि नमः । इति मन्त्रमुच्चारयन् निजलीलाङ्गीकृत ललित. वपुषं विचिन्त्य ।
ॐ ऐं ह्रीं श्री ह मैं हू सु क् लू ही हस्त्रोः महापद्मवनान्तस्थे कारणानन्दविग्रहे । सर्वभूतहितेर्मातः एह्ये ह परमेश्वरि ॥१॥ एह्येहि देवि देवेशि त्रिपुरे सुरपूजिते । परामृतप्रिये शीघ्र सान्निध्यं कुरु सिद्धिदे ।।२।। देवेशि भक्तिसुलभे सर्वावरणसंयुते ।।
यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ॥३॥ इति तां बैन्दवचक्र समावाह्य आवाहनादि मुद्रा प्रदर्शयेत् । यथाॐ ऐं ही श्री आवाहिता भव । । ४ संन्निरुद्धा भव ।
४ संस्थापिता भव । ४ संमुखीकृता भव । ४ संन्निधापिता भव। । ४ विगुण्ठिता भव ।
वन्दन-धेनु-योनिमुद्राः प्रदर्शयेत् । एतदखिल भावयेत् । अत्र -मेरूमंत्रात्मके चक्रे श्रीविषस्तत्र देवता ।
कामेश्वरः प्रकाशात्मा श्रीविमर्शस्तदङ्गका ॥१॥ इत्येतद्वासनारूपमभेदं च परस्परम् । ज्ञात्वा श्रीगुरुवक्त्राब्जात् कृतापूजा महाफला ॥२॥
चतुःषष्ट्युपचारपूजा । अथ परदेवतायाः चतुःषष्ट युपचारान् आचरेत् । तेष्व. शक्तानां भावनया सामान्यार्योदकं किञ्चिदम्बाचरणाम्बुजे अर्पण. बुद्धथा पात्रान्तरे विनिःक्षिपेत् । पुष्पाक्षता वा समर्पयेत् । यथाः
For Private and Personal Use Only