________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ प्रात:स्मरणादिगुरुस्तोत्राणि ॥
श्रीनाथादिगुरुत्रयं गणपति पीठत्रयं भैरवं सिद्धौचं बटुकत्रयं पदयुगं दूतीक्रम मण्डलम् । वीरान्द्वयष्टचतुष्कषष्ठिनवकं शेरावलीपञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥१
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्धये स्वीकृतानेकविग्रह ॥१॥ नवाय नवरूपाय परमार्थस्वरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥२॥ स्वतन्त्राय दयाक्लुप्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥३॥ विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् । प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानहेतवे ॥४॥ पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ! सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥५॥ इत्येवं पचभिः श्लोकैः स्तुवीत यतमानसः । प्रातः प्रबोधसमये जपासुदिवसं भवेत् ॥६॥
निषक्तमणिपादुकानियमितौधकोलाहलं स्फुरत्किसलयारुणं नख समुल्लसच्चन्द्रकम् । परामृतसरोवरोदितसरोजसद्रोचिष भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् ॥१॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरून्मीलितं येन तस्मै श्रीगुरवे नमः ॥१॥
॥ इति प्रात:स्मरणादिगुरूस्तोत्राणि ॥
For Private and Personal Use Only