________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीललितापञ्चकम् ॥ प्रातःस्मरामि ललितावदनारविन्द
विम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढथं
मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥१॥ प्रातर्भजामि ललिताभुजकल्पवल्ली
रक्ताङ्गुलीयलसदगुलिपल्लवाढथाम् । माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ढेक्षुचापकुसुमेघुसृणीर्दधानाम् ॥२॥ प्रातर्नमामि ललिताचरणारविन्द
भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढयम् ॥३॥ प्रातः स्तुवे परशिवां ललितां भवानी
त्रय्यन्तवेद्यविभवां करुणानवद्याम् । विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरी निगमवाड्:मनसादिदूराम् ।।४।। प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति । श्रीशाम्भवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥ वः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते । तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ।।६।। इति श्रीमछकराचार्यकृतं ललितापञ्चकं सम्पूर्णम् ॥
For Private and Personal Use Only