________________
Scanned by CamScanner
कामकुम
॥७॥
ARNER
एवं परिवर्जितकुसंगस्य तस्य मंत्रिणस्तस्मिन् सकलेऽपि नगरे प्रसिद्धिर्जाता, यतः सील उत्तमवित्र । सी बीवान मंगलं परमं । सीलं दुग्गहरं । सील मुक्खाण कुलभवणं ॥३१॥ वहिस्तस्य जलायते जलनिधिः कुत्यायते तत्वणात् । मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरंगायते ॥ व्यालो माल्यगणायते विषरसः पीयूषवर्षायते । यस्यांबेऽखिललोकवल्लभतमं शील समुन्मोलति ॥ ३२ ॥ एकदा राज्ञा तन्नगरे तटाकं खानयितुं पारव्य, ततः क्रियहिवसैलिखितताम्रपत्राणि निःसृतानि. जनैश्च राज्ञे समर्पितानि, राज्ञा च तत्र लिखितलेखपरिवाचनाय तानि पंडितेभ्यः समर्पिता
नि: किंतु तत्र लिप्यंतरसद्भावाकोऽपि तानि वाचयितुं न शक्नोति. तदा कौतुकपियेण राज्ञा पटहो वादितो. यथा ४ यः कोऽप्यमून्पक्षराणि वाचयिष्यति तस्य राजा स्वीयकन्याम राज्यं च दास्यति, इति वाद्यमानः पटहः क्रमेण मंत्रि
गृहसमीपे समागतः. तदा मंत्रिणा स पटहः स्पृष्टः, ततो मंत्रिणा नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि, यPथा यत्रैतानि पत्राणि निःसृतानि, ततःपूर्वदिशि दशहस्तानि गत्वा कटिप्रमाणं भूमौ खनिते सति तत्रैका महती शिला
समेष्यति. तस्या अधश्च दशलक्षाः सुवर्णानां संति, तत् श्रुत्वा सर्वेषां चमत्कारोऽभूत, कौतुकालोकनोत्कंठितमानसेन राझोक्तं तर्हि संपत्येव तत्र गत्वा विलोक्यते. ततः सर्वजनपरिवृतो राजा तत्र गतः, ताम्रपत्रोक्तविधिश्च तेन कृतः, दशलक्षाः सुवर्णानां निःसृताः, सर्वेषां च महान् हषों जातः, राज्ञापि मंत्रिणः प्रशंसा कृता, यदहो कीदृशं ज्ञानस्य माहात्म्यमस्तीति, यतः--