________________ परिशिष्ट-६५ आचार्यः श्री यशोभद्रः भव्यानां प्रतिबोधकः / तस्य पट्टधरः श्रीमान् शालिभद्रो बभूव ह / / 6 / / राजपुत्राश्च राठौरास्तेनैव प्रतिबोधिताः / विधाय प्रार्हतान् पश्चादोसवाले नियुक्तवान्।।७।। व्यतीयाय कियान् कालो जीर्णं जातं च मन्दिरम् / वैक्रमीयसहस्राब्दे द्वितीयोद्धरणं कृतम् // 8 // तत एवं महावीरो वीतरागः प्रतिष्ठितः / रक्ताभिधं परं तस्य नाम प्राहुर्मनीषिणः // 6 // रसाधिक्ये द्विसाहस्र बीजापुरनिवासिनः / मिथोभूय पुनस्तस्य . भव्यमुद्धरणं व्यधुः // 10 // कृत्वावार्षिकमेव साद्रिनगरे सिद्धाचलं यायिनं, सूरि श्रीमुनिवल्लभमुनियुतं संप्रार्थ्य सद्भावतः / श्रीमद्रक्तजिनेश्वरस्य च पुनश्चैते प्रतिष्ठा कृते, बीजाग्रामनिवासिनो भविजना पानीनयन्नादरात् // 11 // मार्गे शुक्लदले शुभे श्रवणभे षष्ठ्याँ कवेर्वासरे, श्रीमत्संघचतुविधेन महता श्री हस्तितुण्डीपुरे। आचार्येण च वल्लभेन गुरुणा वाणेन्द्रयुक् साधुना, बिम्ब रक्तजिनेश्वरस्य शिवदं प्रीत्या प्रतिष्ठापितम् / / 12 / /