________________ नषधीयचरिते स समीक्ष्य महीपाल: स्वां सुतां प्राप्तयौवनाम् / अपश्यदात्मना . कार्य दमयन्त्याः स्वयंवरम् // 40 / / स संनिमन्त्रयामास महीपालान् विशांपतिः। / एषोऽनुभूयतां वाराः स्वयंवर इति प्रभो // 41 // श्रुत्वा नु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् / / अभिजग्मुस्ततो भीमं राजानो भीमशासनात् / / 42 // हस्त्यश्वरथघोषेण पूरयन्तो वसुन्धराम् / विचित्रमाल्याभरणलदृश्यैः स्वलंकृतः // 43 // तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् / यथाहमकरोत् पूजां तेऽवसंस्तत्र पूजिताः // 44 / / एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ / अटमानौ महात्मानाविन्द्रलोकमितो गतौ // 45 // नारदः पर्वतश्च व महाप्राज्ञी महाव्रती / देवराजस्य भवनं विविशाते सुपूजिती // 46 // तावर्चयित्वा मघवा ततः कुशलमव्ययम् / पप्रच्छानामयं चापि तयोः सर्वगतं विभुः / / 47 // नारद उवाच आवयोः कुशलं देव , सर्वत्रगतमीश्वरः / लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो // 48 // नारदस्य वचः श्रुत्वा पप्रच्छ बल-वृत्रहा / धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः / / 49 / / शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः। अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक // 50 // क्व नु ते क्षत्रियाः शुराः न हि पश्यामि तानहम् / आगच्छतो महीपालान् दयितानतिथीन् मम // 51 // . नारद उवाच एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत / 'शृणु मे भगवन् येन न दृश्यन्ते महीक्षितः // 52 //