________________ नैषधीयचरिते तत्र स्म राजते भैमी सर्वाभरणभूषिता। सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा // 12 // अतीव रूपसम्पन्ना श्रीरिवायतलोचना / न देवेषु न यक्षेषु तादृग् रूपवती क्वचित् // 13 // मानुषेष्वपि चान्येषु दृष्टापूर्वाऽथवा श्रुता। चित्तप्रसादनी बाला देवानामपि सुन्दरी // 14 // नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि / / कन्दर्प इव रूपेण मूर्तिमानभवत् स्वयम् // 15 // तस्याः समीपे तु मलं प्रशशंसुः कुतूहलात् / नैषधस्य समीपे तु दमयन्ती पुनः पुनः / / 16 / / तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान् / . अन्योऽन्यं प्रति कौन्तेय ! स व्यवर्धत हृच्छयः // 17 // अशक्नुवन्नलः कामं तदा धारयितुं हृदा।। अन्तःपुरसमीपस्थे वन आस्ते रहोगतः // 18 // स ददर्श ततो हंसान जातरूपपरिष्कृतान् / वने विचरतां तेषामेकं जग्राह पक्षिणम् // 19 // ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा। हन्तव्योऽस्मिन् न ते राजन् ! करिष्यामि तव प्रियम् // 20 // दमयन्तीसकाशे त्वां कथयिष्यामि नैषध / यथा त्वदन्यं पुरुषं न सा मंस्यति कहिचित् / / 21 / / एवमुक्कस्ततो हंसमुत्ससर्ज महीपतिः / ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः // 21 // विदर्भनगरी गत्वा दमयन्त्यास्तदान्तिके / निपेतुस्ते गरुत्मन्तः सा ददर्श च तान् खगान् // 23 // सा तानद्भुतरूपान् वै दृष्ट्वा सखिगणान्विता / हृष्टा ग्रहीतुं . खगमास्त्वरमाणोपचक्रमे // 24 // अथ हंसा विससृपुः सर्वतः प्रमदावने / एकैकशस्तदा कन्यास्तान हंसान् समुपाद्रवन् // 25 / /