________________ नवमः सर्गः 541 द्वारा किये जा रहे देवताओं के अपराध तथा दमयन्ती का चित्र में नल को यह कहना कि देवताओं को भी स्वयंवर में आने दिया जाय बिलकुल अप्रसक्त और बेतुकी हैं। इसतरह स्वभावतः ये श्लोक अगले श्लोक "इतीबमालेख्यगतेऽपि" (155) के विरुद्ध चल रहे हैं // 154 // इतीयमालेख्यगतेऽपि वीक्षिते त्वयि मरवीडसमस्ययानया। पदे पदे मौनमयान्तरीपिणी प्रवर्तिता सारपसारसारणो / / 155 / / अन्वयः-आलेख्य-गते अपि त्वयि वीक्षिते सति स्मर-बीड-समस्यया अनया पदे पदे मौनमयान्तरीपिणी सारद्य-सार-सारणी प्रवतिता। टीका-[ इतः परं सख्याः उक्तिः हे नल ! आलेख्यगते स्थिते अपि प्रत्यक्षदृष्टे तु किमु वाच्यम् त्वयि वोक्षिते दृष्टे सति स्मरः कामश्च बोरः लज्जा च तयोः ( द्वन्द्व ) समस्या समतनं संमिश्रणमित्यर्थः (10 तत्पु० ) यस्यां तथाभूतया ( ब० बी० ) अनया दमयन्त्या पदे पदे वचने वचने अथ च स्थाने स्थाने मौनम् तूष्णीभाव एवेति मौनमयानि अन्तरीपाणि द्वीपानि (द्वीपोऽस्त्रियामन्तरीपम्-इत्यमरः) (कर्मधा० ) अस्या सन्तीति तद्वती मौनरूपद्वीपयुक्तत्यर्थ: सारघस्य मधुनः यः सारः स्थिरांशः तस्य सारणी स्वल्पा सरित् कुल्यमितियावत् ( "सारणी स्वल्पसरित्' इति विश्वः , प्रवतिता प्रवाहिता चित्रस्थमपि त्वामवलोक्य कामे उद्दीप्ते उन्मादकारणाकिमपि वदति स्म, चेतनावस्थायां च लज्जाकारणात् मौनमाकलयति स्मेति भावः // 155 // व्याकरण-आलेख्यम् आ + /लिख + ण्यत् / व्रीड:/वी + घन ( भावे ) ! समस्या सम् + /अस् + क्यप् ( भावे ) + टाप् / मौनमयमुनेर्भाव इति मुनि + अण् मौनम्, मौनमेवेति मौन + मयट (स्वरूपार्थे ) / अन्तरीपम् अन्तर्गता आपोऽस्येति अन्तर + अप + समासान्त अप्रत्यय, ईत्व ! सारघम् सरघाभिः (मधुमक्षिकाभिः) कृतमिति सरघा + अण् / सारणी सारयति = पातयति तीरमिति सृ + णिच् + ल्युट् ( कर्तरि ) + डीए प्रवर्तिता प्र + Vवृत् + णिच् + टाप् / अनुवाद-"चित्र में भी तुम्हें देख पड़ने पर काम और लज्जा का मिलाजुला भाव अपनाये यह ( दमयन्ती) पद-पद पर मौन-रूपी द्वीपों वाली मधुसार की नदी वहा देती थी" // 155 //