________________ 415 नैषधीयचरिते अथोभ्रमन्ती रुदती गतक्षमा ससंभ्रमा लुप्तरतिः स्खलन्मतिः / व्यधात्प्रियप्राप्तिविघातनिश्चयान्मदूनि दूना परिदेवितानि सा // 87 // अन्वयः-अथ प्रियावाप्ति-विधात-निश्चयात् दूना सा उद्ममन्ती, रुदती, गतक्षमा, ससंभ्रमा,लुप्तरतिस्खलन्मतिश्च सती मृदूनि परिदेषितानि व्यधात् / टोका-अथ तदनन्तरम् प्रियस्य नलस्य या अवाप्तिः प्राप्तिः तस्याः विघातः विनाशः तस्यां बाधेति यावत् तस्य निश्चयात् प्रियतम-लाभो न मे भविष्यतीति निर्णयात् कारणादित्यर्थः ( सर्वत्र प० तत्पु० ) दूना दुःखिता सा दमयन्ती उद्भमन्ती उन्मान्ती रुदती रोदनं कुर्वती, गता नष्टा क्षमा सहनशक्तिः (कर्मधा०) यस्याः तगभूता (ब० वी० ) संभ्रमेण बैक्लव्येन सह विद्यमाना ( ब० वी०) लुप्ता नष्टा रतिः मानससुखं ( कर्मधा० ) यस्या. तथाभूता (ब० वी०) स्खलन्ती कर्तव्याकर्तव्यविवेकपथात् प्रच्यवमाना मतिः बुद्धिः ( कर्मधा० ) यस्याः तपाभूता (ब० वी० ) किङ्ककर्तव्यविमूढेत्यर्थः च सती मृदूनि कोमलानि करुणाजनकानीति यावत् परिदेवितानि विलापान् ग्यषात् अकरोत् / / 87 // व्याकरण-अवाप्ति: अव + /+ क्तिन् ( भावे ) / विधात: वि + Vहन + धन (भावे ) / दूना दू+क्त, त को न + टाप् / निश्चयात् निस् + Vfच + अच् (भावे)क्षमा क्षम् + अङ् ( भावे ) + टाप् / रतिः रम् + क्तिन् (भावे ) / परिदेवितानि परि+ Vदेव + क्त ( भावे)। व्यषात् वि+ Vधा + लुङ् / अनुवाद-तत्पश्चात् प्रियतम को प्राप्त न कर ( सक ) ने का निश्चय हो जाने के कारण दुःखित वह ( दमयन्ती ) पागल बनी, रोती, सहनशक्ति खोये, व्याकुल, वेचैन और किंकर्तव्य-विमूढ़ हुई हृदय-द्रावक विलाप करने लगी // 87 // टिप्पणी-प्रियतम की अप्राप्ति में हो रहे उन्माद, चिन्ता, विषाद, दैन्य आवेग आदि भावों का सम्मिश्रण होने से भाव-शबलता अलंकार है 'रतिः मतिः' में प्रदान्तगत अन्त्यानुप्रास, 'दूनि दूना' में छेक अन्यत्र वृत्त्यनुप्रास है / / 87 // " ' तबस्स. पशेषहुताशमात्मनस्तनृष्व मद्भस्ममयं यशश्चयम् / 17]Fiवियोगपरेहाफलभक्षणव्रतो पताद्य तृप्यन्नसुभिर्ममाफलैः // 88 // HTTE वया: होमोषु-हुताशन ! (त्वम् ) स्वरस्व, मद्भस्ममयम् आत्मनः 'यशेयकम् तनुका 'हेरोषधे / परे "व्रती ( त्वम् ) अद्य अफलैः मम असुभिः तृप्यन् पत।