________________ नवमः सर्गः पुरः सुरीणां भण केव मानवी न यत्र तास्तत्र तु शोभिकापि सा। अकाञ्चनेऽकिंचन नायिकाङ्गके किमारकूटाभरणेन न श्रियः / / 28 // अन्वयः-सुरीणाम् पुरः मानवी का इव भण। यत्र ताः न ( भवन्ति) तत्र तु सा अपि शोभिका। अकाञ्चने अकिंचननायिकाङ्गके आरकूटाभरणेन श्रियः किम् न ( भवन्ति ) ? टीका-सुरीणाम् सुराङ्गनानाम् पुरः अग्रे तदपेक्षयेत्यर्थः मानवी मानुषी स्त्री का इवेति वाक्यालंकारे भण कथय न कापीति काकुः, देवाङ्गनानां तुलनया मानवलोकस्त्री तुच्छेवास्तीति भावः / यत्र यस्मिन् स्थाने ताः सुर्य न भवन्तीति शेषः तत्र तस्मिन् स्थाने तु सा मानवी अपि शोभिका शोभायुक्ता भवति शोभते इत्यर्थः 'निरस्तपादपे देशे एरण्डोऽपि गुमायते' इति न्यायात्, न काञ्चनं काञ्चनाभरणमित्यर्थः यस्मिन् तथाभूते ( ना ब० बी० ) अकिञ्चनस्य दरिद्रस्य नायिकायाः स्त्रियाः अङ्गे एवाङ्गके हस्ताद्यवयवे ( उभयत्र ष० तत्पु० ) आरकूटस्य रीतेः 'पित्तल' इति भाषायां प्रसिद्धस्य विकारः आरकूटम् ('रीतिः स्त्रियामारकूट म्' इत्यमरः ) च तत् आभरणं भूषणं तेन ( कर्मधा० ) श्रियः शोभाः कि न भवन्तीति शेषः अपि तु भवन्त्येवेति काकुः / यथा सुवर्णालंकाराभावे आरकूटालंकारेणैव दरिद्रस्य भार्या शोभते, तथैव भूलोके सुर-सुन्दरीणाम् अभावे एव ममापि शोभा स्यान्नाम / सुरसून्दर्यपेक्षया सौन्दर्येऽहं सुतरां हीना, किन्तु भूलोकीयान्यस्त्रीणामपेक्षया एवाहं सुन्दरी अस्मीत्यहं भूलोकीयानामेव योग्या, न पुनः स्वर्गलोकीयाना मिति भावः / / 28 // व्याकरण-सुरीणाम् सुराणां स्त्रियः इति सुर + डीप् ( पुंयोगे)। सुर के लिए पीछे सर्ग 5 श्लोक 34 देखिए। मानवी मनोरपत्यं स्त्री इति मनु + अण् + डीप् / शोभिका शोभते इति /शुभ् + ण्वुल + टाप् / अकिञ्चन न किञ्चन धनादिकं यस्येति मयूरव्यंसकादित्वात् समास / अङ्गके अङ्गे + क (स्वार्थे ) / आरकूटम् आरकूट + अण ( विकारार्थ ) / अनुवाद-“बोलो, देवाङ्गनाओं के आगे मानवी क्या है ? (कुछ भी नहीं), किन्तु जहाँ वे नहीं हैं, वहाँ ( भूलोक में ) वह ( मानवी ) भी शोभा पा लेती है। अकिञ्चन पुरुष की स्त्री के अङ्ग में सोने का गहना नहीं होता, तो क्या पीतल के गहने से उसकी शोभा नहीं होती ?" // 28 //