________________ नैषधीयचरिते षष्ठः सर्गः दूत्याय देत्यारिपतेः प्रवृत्तो द्विषां निषेद्धा निषधप्रधानम् / स भीमभूमीपतिराजधानी लक्षीचकाराथ रथस्य तस्य // 1 // अन्वयः-अथ तस्य दैत्यारिपतेः दूत्याय प्रवृत्तः ( सन् ) द्विषाम् निषेद्धा स निषध-प्रधानं भीम 'धानी रथस्य लक्षीचकार / टीका - अथ = दौत्यस्वीकारानन्तरम् / तस्य = प्रसिद्धस्य / दैत्यानां - दानवानाम् / ये अरयः शत्रवः = प्रतिद्वन्द्विनः देवा इत्यर्थः तेषाम् / पत्युः = स्वामिनः इन्द्रस्येत्यर्थः ( उभयत्र प० तत्पु० ) दूत्याय = दूतकर्मणे। प्रवृत्तः = उद्यतः सन् द्विषाम् = शत्रूणाम् / निषेद्धा = निवारकः शत्रुहन्तेत्यर्थः / स प्रसिद्धो। निषधानाम् = निषधाख्य-जनपदस्य / प्रधानम् अधिपः = निषधेशो नल इत्यर्थः (10 तत्पु० ) भीमः एतदाख्यो / भूमीपतिः = नृपः ( कर्मधा० ) भूम्याः पतिः इति (10 तत्पु० ) तस्य / राजधानीम् = नगरीम् (10 तत्पु० ) / रथस्य = स्यन्दनस्य / लक्षोचकार= लक्ष्यमकरोत् कुण्डिनाख्यां नगरी प्रति जगामेत्यर्थः / व्याकरण-दैत्याः दितेः अपत्यानि पुमांस इति दिति + ण्यः / दूत्यम् दूतस्य भावः कर्म वेति दूत + यत् / यद्यपि यह वैदिक प्रयोग है, तथापि लोक में भी इसको कवियों ने प्रयुक्त कर रखा है। द्विषाम् द्वेष्टीति /द्विष् + क्विप् / निषेद्धा निषेधतीति नि + षिध् + तृच / कर्तरि)। निषषप्रधानम् मल्लि० ने प्रधान: पाठ दिया है किन्तु 'क्लीबे प्रधानं प्रमुख०' इस अमरकोष के अनुसार विशेष्यभूत प्रधान शब्द नित्य नपुंसक ही हुआ करता है। हां, 'सः' का विशेषण बना लें तो आपत्ति नहीं उठती। अन्वय 'निषधप्रघानः सः' यों कर लें। मल्लि० आदि ने रथस्य तस्य के स्थान में 'रथस्यवरय' पाठ दिया है, जो ठीक प्रतीत होता है, क्योंकि 'तस्य' को 'दैत्यारिपतेः के साथ जोड़ने में आसत्ति नहीं रहती, क्योंकि वह बहुत दूर पड़ा हुआ है। रथस्य लक्षीचकार-'रथस्य' शब्द 'लक्ष' का विशेषण बना हुआ है अर्थात् रथ-सम्बन्धी लक्ष, जिसके साथ 'च्वि' प्रत्यय