________________ भष्टमः सर्गः टिप्पणी-विद्याधर 'अत्रातिशयोक्तिरलङ्कारः' कह रहे हैं। हमारे विचार से पीपूष पर रसायनत्वारोप में रूपक और रदनच्छद-पान को रसायन से अधिक प्रभावशाली बताने में व्यतिरेक बन रहा है / शब्दालंकार वृत्त्यनुप्रास है। प्लुष्टः स्वैश्चापरोपैः सह स हि मकरेणात्मभूः केतुनाऽभू द्धत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् / भ्रूभ्यां ते तन्वि ! धन्वी भवतु तब सितैर्जेत्रभल्ल: स्मितैः स्ता दस्तु त्वन्नेत्रचत्तरशफरयुगाधोनमीनध्वजाङ्कः // 105 // अन्त्रयः-आत्मभूः स्वः चापरोपैः केतुना च सह प्लुष्टः ( अभूत् ), अथ स हि त्वत्प्रसादात् नः मानसः नन्दनः सन् मनसिजताम् धत्ताम् / हे तन्वि ! (सः) ते भ्रूभ्याम् धन्वी भवतु; तव सितैः स्मितैः जैत्र-भल्लः स्तात्, त्वन्नेत्र "जाङ्क: ( च ) अस्तु / टीका-आत्मभः कामः ( 'मकरध्वज आत्मः' इत्यमरः) स्वैः स्वकीयः चापः धनुश्च रोपाः बाणाश्चेति तैः ( द्वन्द्व ) केतुना ध्वजेन च सह प्लुष्टः महादेवतृतीयनेत्राचिषा दग्धः अभूत् / हे हन्धि ! कृशाङ्गि ! अथ अनन्तरम् इदानीमित्यर्थः स हि निश्चयेन तब प्रसाद: कुपा तस्मात् (10 तत्पु० ) नः अस्माकम् मानसः मनःसम्बन्धी नन्दन : आनन्ददायकः अथ च मानसः पुत्रः सन् ( 'नन्दनो हर्षके सुते' इति विश्वः ) मन सजता / मनोजत्वम् धत्ताम् / हे तन्धि ! कृशाङ्गि! स कामः ते तव भूभ्याम् भ्र दयेन धनी धनुर्द्वयवान् भवतु, पूर्वं तु तस्यैकमेव धनुरोसीत्, इदानों तु तस्य अ दय-रूपे धनुर्द्वयं भविष्यतीत्यर्थः / तव सितैः श्वेतवर्णैः अथ च ( श्लेषे सशयोरभेदात् शितैः / तीक्ष्णः मितः मन्दहसितः जैत्राः जेतारः भल्ला: भल्लास्य-वाण विशेषाः / कर्मधा० ) यस्य तथाभूतः (ब० वी० ) स्तात् अस्तु; तब नेत्र नयनद्वयम् ( 50 तत्पु० ) एव चत्तरम् अतिशयेन चञ्चलम् शफरयुगम् ( उभयत्र कर्मधा फरयो: मत्स्ययोः युगम् द्वयम् ( 10 तत्पु० ) तस्य अघीनः कशः (ष तत्पु० ) मोनः मत्स्यः एव ध्वजः पताकारूप: अङ्कः चिह्नम् ( उभयत्र कर्मधा० ) यस्य तथाभुतः ( ब० वी० ) च अस्तु भवतु। महादेवनयनाचिरा भल्लीभवनात् पूर्वम् कामस्य एकमेव धनुः, पञ्चव शराः, एक एव च मीनध्वजाङ्कः आसीत, सम्प्रति तु नो मनसि पुनर्जन्मान्तरमवाप्तस्य तस्य त्वद् भ्र रूपे द्वे धनुषी. स्मितरूपा बहवः शराः, नयन-द्वयरूपी द्वौ मीनाङ्की