________________ 352 नैषधीयचरिते व्यर्थकालातिपातो न कर्तव्य इत्यर्थः, अथ यदि स्वा निजा भूमिः जन्मस्थानम् तस्याम् भूमौ भूलोके धृतिम् रतिम् प्रीतिमित्यर्थः यासि प्राप्नोषि स्वजन्मस्थानम् भूतलम् रोचयतीति भावः, तर्हि भुवः भूम्याः स्वः स्वर्गस्य आदेशम् व्यपदेशम् संज्ञामित्यर्थः ( सुप्सुपेति स० ) आचरामः कुर्मः। वयमत्रैव भूलोके स्थास्यामः, स्वर्गभोगांश्च कुर्मः। यत्र वयमिन्द्रादयो देवाः, स्वभॊगाश्च, तदेव स्वर्गः इति भावः / / 96 // व्याकरण-चेतसि चे यतेऽनेनेति /चित् + असुन् ( करणे ) / दया/दय् + अङ् + टाप् / उदयः उत् + इ + अच् / द्याम् यास्कानुसार 'द्योतते इति सतः' / भूमो भवन्त्यस्यां भूतानीति /भू + मि, कित्व / अनुवाद ---"( दमयन्ती !) तुम्हारे मन में ( हमारे लिए ) यदि दया हो उठी हो, तो स्वर्ग को सुशोभित करो। विलम्ब व्यर्थ है। यदि अपनी (जन्म).. भूमि भूलोक से लगाव हो तो हम भूलोक को स्वर्ग संज्ञा दे देते हैं" // 96 // टिप्पणी-इस श्लोक के उत्तरार्ध का यह पाठान्तर है-'क्ष्मामेव देवालयतां नयामो भूमौ रतिश्चेत्तव जन्मभूमौ'। जो अधिक सरल है। भाव यह है कि हम तुम्हारे खातिर स्वर्ग छोड़ देंगे और भू को ही. स्वर्ग बना देंगे, विद्याधर यहाँ काव्यलिंग कह रहे हैं। 'दयोदय' तथा 'भूमौ', 'भूमी' में छेक, अन्यत्र वृत्त्यनुप्रास है। धिनोति नास्माञ्जलजेन पूजा त्वयान्वहं तन्वि ! वितन्यमाना। तव प्रसादोपनते तु मौलौ पूजास्तु नस्त्वत्पदपङ्कजाभ्याम् // 17 // अन्वयः-हे तन्वि ! त्वया अन्वहम् जलजेन वितन्यमाना पूजा अस्मान न धिनोति, तु तव प्रसादोपनते नः मौलौ त्वत्पद-पंकजाभ्याम् पूजा अस्तु / टोका-हे तन्वि ! कृशाङ्गि ! त्वया अहनि अहनि इत्यन्वहम् प्रतिदिनम् (अव्ययी० ) जलजेन जातावेकवचनम् जलजः कमलैः वितन्यमाना क्रियमाणा पूजा अर्चना अस्मान् नः इन्द्रादीन् न धिनोति न प्रीणयति, तु किन्तु तव ते प्रसादाय प्रसन्नीकरणाय उपनते नम्र नः अस्माकम् मौलौ शिरसि तव पदे चरणो (10 तत्पु० ) एव पङ्कजे जलजे ताभ्याम् पूजा अस्तु भवतु / त्वं कमलरस्माकं पूजां मा कुरु, किन्तु अस्मत्कृतप्रणयापराधेषु त्वत्प्रसादाय नतेऽस्माकं मूनि स्वचरणकमलं निधाय नः पूजां कुर्विति भावः // 97 //