________________ अष्टमः सर्गः 283 जनाः पुरुषाः भटा इत्यर्थः ( कर्मधा० ) तेषाम् अषणाम् नयनानाम् बन्धात् बन्धनात् ( उभयत्र 10 तत्पु० ) नलवत् सुन्दरम् ( उपमान तत्पु०) मत्वा बुद्ध्वा. आतिथ्यस्य अतिथिसत्कारसम्बन्धीनि चाटूनि प्रियमधुरवचनानि (10 तत्पु० ) अपदिश्य व्याजीकृत्य चाटुव्याजेनेत्यर्थः तस्मिन् आगन्तुकपुरुषे तिष्ठतीति तथोक्ताम् ( उपपद तत्पु० ) प्रियस्य नलस्य श्रियम् शोभाम् वस्तुत: तत्त्वतः भूयः अपि पुनरपि अस्तुत अस्तीत् / दमयन्ती नलवत्सुन्दरे आगन्तुके आतिथ्य-व्याजेन वस्तुतः नलस्यैव गुणान् अवर्णयदिति भावः // 31 // व्याकरण-आतिथ्येन अतिथये इदमिति अतिथि + ञ्यः ( 'अतिथेञ्यंः' 5 / 426) अमरम् म्रियते इति मृ + अच् ( कर्तरि ) न मरः इत्यमरः / तत्स्थाम् तत् + /स्था + कः + टाप् / अस्तुत/स्तु + लङ् ( आत्मने० ) / अनुवाद-वह बाला ( दमयन्ती ) उस ( आगन्तुक ) को रक्षा-पुरुषों की आँखों में धूल झोंकने के कारण नल जैसा समझकर अतिथि-सत्कार का बहाना करके वस्तुतः उसमें स्थित प्रियतम ( नल ) की शोभा को फिर से वर्णन कर बैठी // 31 // टिप्पणी-दमयन्ती अतिथि-सत्कार के रूप में आगन्तुक के लिए प्रियमधुर वचनों का प्रयोग जो कर रही थी, वह तो अतिथि सत्कार का बहानामात्र था। तत्त्वतः वह आगन्तुक को लक्ष्य करके अपने प्रियतम का ही गुणगान करने लगी। 'नल-सुन्दरम्' में उपमा हैं। विद्याधर 'तम्, अमरं मत्वा' में रूपक मान रहे हैं / 'रक्षि' 'नाक्षि', 'स्तुत' 'स्तुतः' में छेक, अन्यत्र वृत्त्यनुप्रास है। वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् / खलत्वमल्पीयसि जल्पितेऽपि तदस्तु बन्दिभ्रमभूमितैव // 32 // अन्वयः-गुणाद्भुत वस्तुनि मौनिता चेत्, तर्हि वाग्जन्म-वैफल्यम् असह्यशल्यम् ( भवति ) अल्पीयसि जल्पिते तु खलत्वम् ( भवति ) तत् वन्दिभ्रमभूमिता एव अस्तु / टोका-गुणैः सौन्दर्यादिधर्मः अद्भुते आश्चर्यभूते वस्तुनि पदार्थे मोनिता तूष्णीभावः चेत्, यदि अद्भुतगुणवतः स्तुतियोग्यस्य पुरुषस्य पदार्थस्य वा गुणाः न वर्ण्यन्ते इति भावः, तर्हि वाचः वाण्याः जन्म उत्पत्तिः तस्या वैफल्यम् वैयर्थ्यम् (ष०तत्पू०) असह्यम् सोढुमशक्यम् शल्यम् कंटकम् भवतीति शेषः गुणिनो गुणावर्णनं शल्यवत