________________ अष्टम: सर्गः 259 अन्वयः-- भैमी तम् आलोक्य किम् अपि आनन्द-परम्पराणाम् स्वाच्छन्द्यम् निर्झरिणी धाराधर-केलिकालम् आसाद्य वाराम महारयम् इव अवाप / टीका-भैमी भीमस्य राज्ञः पुत्री दमयन्ती तम् आगन्तुकम् नलमित्यर्थः आलोक्य दृष्ट्वा किमपि अनिर्वचनीयम् आनन्दस्य हर्षस्य परम्पराणाम् ततीनाम् (10 तत्पु०) स्वाच्छन्द्यम स्वच्छन्दताम् उच्छृङ्खलत्वम् आधिक्यमिति यावत् निर्झरिणी गिरिनदी धाराधराणाम् कालम् समयम् (10 तत्पु०) वर्षर्तुमित्यर्थः आसाद्य प्राप्य वाराम् जलानाम् ( 'वारि' इत्यमरः ) महान् अधिकश्चासो रयः वेगः तम् ( कर्मधा० ) इव अवाप प्राप्नोत् / दमयन्ती नलं दृष्ट्वा निस्सीममानन्दम् अनुबभूवेति भावः // 8 // ___ व्याकरण - परम्परा परम् + पृ + अ + टाप् ( अलुक) (परस्य परस्य पूरणमित्यर्थः) स्वाच्छन्धम् स्वच्छन्द + ष्यन् / निर्झरिणी निर्झर + इन् (मतुबर्थ) जीप / वारिधरः धरतीति / + अच् (कर्तरि) धाराणां धरः इति (प० तत्पु०) / अनुवाद---' मयन्ती उन ( नल ) को देखकर इस प्रकार अनिर्वचनीय, सतत आनन्दातिरेक प्राप्त कर बैठी जैसे कि वर्षाकाल आने पर नदी जलों का महान् वेग प्राप्त कर लेती है।। टिप्पणी-नल को देखने मात्र से दमयन्ती को महान् आनन्द हो गया। इसकी तुलना नदी से की जाने के कारण उपमा है / 'परम्पराणाम्' 'धाराधरकेलिकालम्' में छेक, अन्यत्र वृत्त्यनुप्रास है / तत्रैव मग्ना यदपश्यदने नास्या दगस्याङ्गमयास्यदन्यत् / नादास्यदस्यै यदि बुद्धिधारा विच्छिद्य विच्छिद्य चिरान्निमेषः / / 9 // अन्वयः-अस्याः दृक अस्य यत् ( अङ्गम् ) अग्ने अपश्यत, तत्र एव मग्ना ( सती ) अन्यत् अङ्गम् न अयास्यत् यदि चिरात् निमेष: विच्छिद्य विच्छिद्य अस्य बुद्धिधाराम् न अदास्यत् / टीका--अस्याः दमयन्त्याः दुक दृष्टिः अस्य नलस्य यत् अङ्गम् अग्रे प्रथमम् अपश्यत् अवालोकयत् तत्र तस्मिन् अङ्गे एव मना निमग्ना अनुराग-वशात् लीनेति यावत् अन्यत् अपरम् अङ्गम् अवयवम् न अयास्यत् न अगमिष्यत् यदि चेत् चिरात् चिरकालात् जातः निमेष: पक्षमपातः विच्छिा विच्छिद्य पूर्वाङ्गदर्शनस्य विच्छेदं कृत्वा कृत्वा अस्यै दमयन्त्यै बुद्धेः ज्ञानस्य धाराम् सन्ततिम