________________ षष्ठः सर्गः बनने वाला पदान्तगत अन्त्यानुप्रास का एक वाचकानुप्रवेश संकर है / 'वलि' 'विल' में छेक और अन्यत्र वृत्त्यनुप्रास है। अन्तःपुरे विस्तृतवागुरोऽपि बालावलीनां वलितैर्गुणोघः / न कालसारं हरिणं तदक्षिद्वयं प्रभुबंद्धमभून्मनोभूः // 19 // अन्वयः-अन्तःपुरे बालावलीनाम् वलितः गुणोघः ( च ) / [ एव बालावलीनाम् वलितैः गुणोघः ] विस्तृत-बोगुरः अपि मनोभूः कालसारम् हरिणम् (च) तदक्षिद्वयम् ( एव कालसारम् हरिणम् ) वधुम् प्रभुः न अभूत् / ____टीका-अन्तःपुरे अवरोधे बालानाम् युवतीनाम् अवलोनाम् पङ्क्तीनाम् (ष० तत्पु० ) वलितैः चलितैः सविलासगतिभिरित्यर्थः गुणानाम् सौन्दर्यादीनाम् ओघः समूहः ( 10 तत्पु० ) च एव बालानाम् बवयोरभेदात् केशानाम् अवलीनाम् समूहानाम् (ष. तत्पु० ) वलितः आवतितरित्यर्थः गुणानाम् सूत्राणाम् दोरकाणामित्यर्थः ओघैः समूहैः ( 10 तत्पु० ) विस्तृता विस्तारिता ) अन्तर्भावितणिः) वागुरा लक्षणया वशीकरणसाधनम् एव वागुरा मृगबन्धनी ( 'वागुरा मृगबन्धनी' इत्यमरः ) येन तथाभूतः ( ब० वी० ) अपि मनोभू। मनोजः काम इति यावत् कालः कृष्णवर्णः कनीनिकाल्पः सारः श्रेष्ठभागः ( कर्मधा० ) यस्य तथाभूतम् ( ब० वी० ) हरिणम् अवशिष्टभागे पाण्डुरं श्वेतमिति यावत् च तस्य नलस्य अक्ष्णो: नयनयोः द्वयम् युगलम् ( उभयत्र (10 तत्पु० ) एव कालसारम् हरिणम् कृष्णसारसंज्ञकं मृगविशेषम् बद्धम् वशीकतुम् अथ च धर्तुम् प्रभुः समर्थः न अभूत जातः / अन्तःपुरख्याः शतशः तरुण्य स्वसौन्दर्यादिगुणः जितेन्द्रियं नलं वशीकर्तुं न प्राभवन्निति भावः // 19 // व्याकरण-वलितैः वल् + क्तः (भावे ) / वागुरा-वाति ( हिंसति ) इति /वा + उरच गादेशश्च + टाप् / मनोभूः मनसि भवतीति मनस् + /भू + क्विप् ( कर्तरि ) / अक्षि अश्नुते विषयानिति / अश् + क्सि / द्वयम्-द्वी अवयवावत्रेति द्वि + तयप् , तयप को विकल्प से अयच् / प्रभुः प्रभवतीति प्र + Wभू + छ / अनुवाद-वहाँ ( रनिवास में ) बालाओं ( नवयुवतियों ) की श्रेणियों की सविलास चालों ( तथा ) गुणों ( सौन्दर्यादि विशेष धर्मो ) के समूहों के रूप में बालों ( केशों ) की श्रेणियों की बटी हुई डोरों के समूहों से ( बने ) वशीकरणसाधन-रूपी जाल को बिछाये हुए भी कामदेव ( रूपी व्याध ) नल की कालसार