________________ 316 नंषधीयचरिते टिप्पणी. यहाँ चन्दन-लिप्त कुचों के अन्तराल में पड़ी मणियों की रंगबिरंगी किरणावली पर कधि की यह कल्पना है कि वह मानो कुचों को देख फिसल पड़े जन-मनों के पतन-चिह्न हों। जब कोई कीचड़ में फिसल पड़ता है, तो फिसले पैर से जमीन पर लम्बी-सी रेखा खिच जाती है। किरणाबली भी लम्बी पड़ रही थी। इस तरह इस कल्पना में हम प्रतीयमान उत्प्रेक्षा कहेंगे, किन्तु विद्याधर आकार शब्द को ब्याज अर्थ में लेकर किरणावली पर स्खलनरेखाओं की स्थापना में अपहनुति कह रहे हैं। मानसों के चेतनीकरण से समासोक्ति है ही / शब्दालंकार वृत्त्यनुप्रास है। क्षीणेन मध्येऽपि सतोदरेण यत्प्राप्यते नाक्रमणं वलिभ्यः / सर्वाङ्गशुद्धौ तदनङ्गराज्यविजृम्भितं भीमभुवीह चित्रम् // 81 / / अन्वयः-मध्ये अपि सता क्षीणेन उदरेण यत् वलिभ्यः आक्रमणम् न प्राप्यते तत् सर्वाङ्गशुद्धौ इह भामभुवि चित्रम् अनङ्गराज्यविजृम्भितम् / टीका—मध्ये कटिप्रदेशे अपि सता विद्यमानेन स्थितेनेत्यर्थः क्षोणेन अतिकृशेन उदरेण जठरेण यत वलिभ्यः त्रिवलिभ्यः आक्रमणम् अभिभवः न प्राप्यते लभ्यते तत् सर्वाणि सकलानि च तानि अङ्गानि अवयवाः ( कर्मधा० ) तेषाम् शुद्धिः निर्दोषता (ष० तत्पु०) यस्यां तथाभूतायाम् इह अस्याम् भीमः एतत्संज्ञकनृपः भूः उत्पत्ति-स्थानम् ( कर्मधा० ) यस्याः तथाभूतायाम् भैम्यामित्यर्थः चित्रम् आश्चर्यकरम् न अङ्गं शरीरं यस्य तथाभूतस्य ( नन ब० वी० ) कामस्य यत् राज्यम् शासनम् तस्य विज़म्भितम् चेष्टितम् अस्तीति शेषः / अभिनवयौवनकारणात् त्रिवलीनाम् अनभिव्यक्त्या दमयन्त्याः कृशमुदरं त्रिवल्याक्रान्तं नाभदिति भावः / श्लिष्टभाषायाम् अत्रापरोऽप्यर्थः यथा-मध्ये मध्यभागे द्वयोः प्रबलराज्ययोः मध्यवर्ति-प्रदेशे इति यावत् अपि सता उदरेण उदरतुल्यदुबलेन राज्येन सर्वाणि च तानि अङ्गानि ('स्वाम्यमात्य-सुहृत्-कोश-राष्ट्र-दुर्ग-बलानि च / राज्या. ङ्गानि' इत्यमरः ) तेषां शुद्धौ निर्दोषत्वे दृढत्वे इति यावत् सश्यामपि बलिभ्यः ( वबयोरभेदात् ) बलवत्तरेभ्यो राज्येभ्यः सकाशात् भीमभुवि भयानकभूम्याम् आक्रमणं यत् न प्राप्यते तत् चित्रम् आश्चर्यकरम् अनङ्गस्य उक्तसप्तराज्याङ्गरहितस्य दुर्बलराजस्य विजृम्भितम् विलसितम् / स्वाम्यादिसप्ताङ्गपरिपुष्टप्रबलराज्येन सप्ताङ्गरहितो दुर्बलो देशो यदि नाक्रम्यते, तर्हि आश्चर्यमिदमिति भावः // 81 //