________________ सप्तमः सर्गः 205 वर्णन जो किया है, उसे प्रसङ्ग-वश ही समझिए, मुख्यतः नहीं क्योंकि अधर का वर्णन हम पीछे देख आये हैं / यह कवि की अनोखी कल्पनां है, इसलिए हम उत्प्रेक्षा कहेंगे, जो गम्य है। हाथों और पल्लव में चेतनब्यवहार-समारोप होने से समासोक्ति भी है / ‘स्पर्धन' 'गर्धन' में पदान्तगत अन्त्यानुप्रास 'बाल' 'वाल' में छेक अन्यत्र वृत्त्यनुप्रास है। अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः / इत्याह धाता हरिणेक्षणायां कि हस्तलेखाकृतया तयाऽस्याम् // 72 // अन्वयः- ( हे दमयन्ति ! ) अस्य भवत्करस्य एव सर्गाय सरोज-सृष्टिः मम हस्त-लेखः ( अभूत् )" इति धाता हरिणक्षणायाम् अस्याम् हस्तलेखीकृतया तया आह किम् ? टीका--- ( हे दमयन्ति ! ) अस्य पुरो दृश्यमानस्य भवत्याः तव करस्य हस्तस्य ( 10 तत्पु० ) एव सर्गाय रचनाय सरोजानाम् कमलानाम् सृष्टिः सर्जनम् (10 तत्पु० ) मम मे हस्तस्य लेख: हस्तकृतं स्थूलरेखाचित्रम्, करनिर्माणार्थं पूर्वाभ्यास इति यावत् अभूत् अर्थात् करनिर्माणे पूर्ण-नैपुणीभवाप्तुम् प्रथमं मया कमलनिर्माणे अभ्यासः कृतः / इति धाता स्रष्टा हरिणस्य इव अक्षिणी नयने ( उपमान तत्पु० ) यस्याः तथाभूतायाम् (ब० वी० ) अस्यां दमयन्त्याम् हस्ते करे लेखीकृतया लिखितया चित्रितयेति यावत् अथ च अभ्यस्तया ( स० तत्पु० ) तया सरोजसृष्टया आह कथयति किम् ? कमलसृष्टेः पूर्वाभ्यासरूपत्वे करी कमलादपि सुन्दरी, अथ च करयोः कमलरेखया तो शुभ-सूचको इति ध्वन्यते इति भावः॥ 72 // ___ व्याकरण-सर्गाय सूज + घन ( भावे ) / सरोजम् सरसि जायते इति सरस् + /जन् + ड / सृष्टिः सृजू + क्तिन् ( भावे ) / धाता दधातीति Vधा + तृच ( कर्तरि ) / ईक्षणम् ईक्ष्यतेऽनेनेति /ईक्ष् + ल्युट् ( करणे ) : ०लेखीकृतया लेखनम् लेखः /लिख घन अलेखः लेखःसम्पद्यमानया कृतयेति लेख + च्चि, ईत्व VF + क्त। आहब्रू + लट् ब्रू को आह आदेश / अनुवाद-"(हे दमयन्ती ! ) तुम्हारे इस हाथ के निर्माण हेतु कमलों की सृष्टि मेरा हस्तलेख-पूर्वाभ्यास-( कच्चा खाका ) था" इस तरह विधाता मृगनयनी इस ( दमयन्ती ) में पूर्वाभ्यास-रूप में अपनायी तथा हाथ में चित्रित उस ( कमलसृष्टि ) द्वारा कह रहे हैं क्या ? // 72 //