________________ सप्तमः सर्गः 197 चापत्व की और कानों पर ज्यात्व की कल्पना कर रहा है अतः उत्प्रेक्षा है जिसका वाचक किम् शब्द है। चतुर्भुजत्व की कल्पना में कारण बताया गया है, अतः काव्यलिङ्ग भी है / शब्दालंकार वृत्त्यनुप्रास है। आत्मैव चतुर्भुजस्य-इस सम्बन्ध में पीछे सर्ग 1 श्लोक 32 की टिप्पणी देखिये / ग्र वाद्भुतैवावटुशोभितापि प्रसाधिता माणवकेन सेयम् / आलिङ्गयतामप्यवलम्बमाना सुरूपताभागखिलार्ध्वकाया।। 66 / / अन्वयः-(या) ग्रीवा अवटुशोभिता अपि माणवकेन प्रसाधिता; आलिङ्गयताम् अवलम्बमाना अपि सुरूप''काया, सा इयम् अद्भुता एव / टीका ---या ग्रोवा कन्धरा वटुः माणवकः तेन शोभिता अलंकृता (तृ० तत्पु० ) न वटुशोभिता इति अवटु० ( न तत्पू० ) अपि माणवकेन वटुना प्रसाधिता अलंकृता या अवटुशोभिता सा माणवकशोभिता इति विरोधः, तत्परिहार:-अक्टवा कृकाटिकया शोभिता ( 'अवटुटा कृकाटिका' इत्यमरः) अथ च मागवकेन विशतिसरेण मौक्तिकहारेण प्रसाधिता इति / या ('०ऊषकाया इतिच्छेदः) आलिङ्गयताम् आलिङ्गयस्य गोपुच्छाकारस्य मृदङ्गभेदविशेषस्य भावः तत्ता ताम् अवलम्बमाना आश्रयन्ती आलिङ्गयीभवन्ती इत्यर्थः अपि सु सुष्ठ रूपं यस्य (ब० वी० ) तस्य भावम् तत्ताम् भजन्ति प्राप्नुवन्तीति तथोक्ताः ( उपपद तत्पु० ) अखिलाः सर्वे ऊर्ध्वंकाः यवमध्याकाराः मृदङ्गविशेषाः मृदङ्गविशेषत्वमिति भावप्रधाननिर्देशः ( उभयत्र कर्मधा० ) यस्याः तथाभूता ( ब० वी० ) या खलु ग्रीवा आलिङ्गयाख्य-मृदङ्गतामवलम्बते, सा कथं सुन्दरोर्ध्वकाख्यमृदङ्गत्वम् अवलम्बताम् इति विरोधः तत्परिहारः-आलिङ्गयताम् आलिङ्गनयोग्यताम् आश्रयन्ती आलिङ्गनयोग्या भवन्तीति यावत् सुरूपताभाक सौन्दर्यपूर्ण इत्यर्थः अखिल: अर्ध्वकायः शरीरोज़भागो यया तथाविधा अर्थात् या ग्रीवा आलिङ्गनयोग्या वर्तते, यया च शरीरस्योर्वभागः सुन्दरो भाति सा इयम् एषा ग्रीवा अद्भुता विचित्रा अस्तीति शेषः // 66 // व्याकरण : आलिङ्गयताम् आलिङ्गितुम् योग्येति आ + /लिङ्ग + यत् + तल् + टाप् , अथ च आलिङ्गयस्य (मृदङ्गविशेषस्य) भावः तत्ता ताम् / ०भाक् भिज् + क्विप् / अद्भुत यास्काचार्यानुसार अभूतमिव (पृषोदरादित्वात् साधुः)।