________________ षष्ठः सर्गः अन्वयः-असो अस्त्र-सज्जे रक्षिजने हेलाम् दधी; 'लीनः चरामि इति हृदा ललज्जे; 'भैमीम् द्रक्ष्यामि' इति संतुतोष; स्वम् दूतम् विचिन्त्य शुशोच / टीका-असौ नलः अस्त्रः आयुधैः सज्जे सन्नद्धे [ सन्नद्धो वर्मितः सज्जे" इत्यमरः ] रक्षी रक्षकश्चासौ जनः लोकः तस्मिन् ( कर्मधा० ) सुरक्षासैनिकेष्वित्यर्थः हेलाम् अवज्ञाम् दधौ दधार अदृश्यस्य सतो ममैते किमपि कर्तुं न शक्नुवन्तीत्यवज्ञा कारणम् / अहं लीनः अदृश्यः अन्तहित इति यावत् चरामि गच्छामीति हेतोः हृदा मनसा ललज्जे लजामनुबभूव. वीरपुरुषाणामेतत् सर्वथाऽनुचित मित्यर्थः, 'भैमोम् दमयन्तों द्रक्ष्यामि विलोकयिष्यामि इति हेतोः संतुतोष प्रसन्नोऽभवत्; ( पुनः ) स्वम् आत्मानम् दूतं विचिन्त्य विचार्य शुशोच दुःखमन्वभवत्, निर्वेदमगादिति यावत्, 'अहं दूतोऽस्मि, दृष्ट्वापि तामहं न लप्स्ये' इति निर्वेदकारणम् // 10 // व्याकरण-सज्जः सज्जतीति /सस्ज् + अच् ( कर्तरि ) / अस्त्रम् अस्यते ( क्षिप्यते ) इति/अस् + ष्ठन् / हेलाम् /हेल + अ + टाप् / लीनः ली + क्त, त को न / अनुवाद-वह ( नल ) शस्त्रों से सजित सुरक्षा-सैनिक लोगों की अवहेलना कर गये; 'मैं अन्तर्ध्यान होकर चल रहा है। इस कारण लज्जित हो जाते थे; 'मैं दमयन्ती को देखू गा' इस विचार से प्रसन्न होते थे, (किन्तु ) अपने को दूत समझकर निराश हो जाते थे // 10 // टिप्पणी-यहाँ कवि श्लोक के चार पादों में क्रमशः गर्व, लज्जा, हर्ष और निर्वेद नामक भावों का सम्मिश्रण नल में दिखा रहा है, इसलिए भाव-शबलता अलंकार है। शब्दालंकारों में 'सज्जे' 'लज्जे' में अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। अथोपकार्याममरेन्द्रकार्यात्कक्षासु रक्षाधिकृतैरदृष्टः / भैमी दिक्षुर्बहु दिक्षु चक्षुर्दिशन्नसो तामविशद्विशङ्कः // 11 // अन्वयः-अथ असी कक्षासु रक्षाधिकृतः अदृष्टः, भैमीम् दिदृक्षः, ( अतएव ) दिक्ष चक्षुः बहु दिशन्, विशङ्कः सन् अमरेन्द्र-कार्यात् ताम् उपकार्याम् अविशत् / टीका-अथ अनन्तरम् असो नलः कक्षासु प्रकोष्ठेषु ('कक्षा प्रकोष्ठे हादे:: इत्यमरः ) रक्षायाम् अधिकृता कृताधिकाराः रक्षाधिकारिण इत्यर्थः ( स०