SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ 1584 नैषधमहाकाव्यम् / द्वाविंशो नवसाहसाङ्कचरिते चम्पूकृतोऽयं महा काव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः / / 146 / / श्रीहर्षमिति / द्वाविंशतेः पूरणः सर्गों गतः समाप्ति प्राप / किंभूतस्य श्रीहर्षस्य ? नवो यः साहसाङ्को नाम राजा तस्य चरिते विषये चम्पूंगद्यपद्यमयीं कथां करोतीति कृत् तस्य निर्मितवतः सोऽपि ग्रन्थो येन कृत इति सूच्यते 'नृपसाहसाङ्क-' इति पाठे-नृपश्चासौ साहसाङ्कश्च तस्य गौडेन्द्रस्य चरिते विषये चम्पूकृतः भोजराजस्य विक्रमार्कस्य वेति केचित् / द्वाविंश इति पूरणे डटि 'ति विंशतेर्डिति' इति तिलोपः // ___कवीश्वर-समूह के "किया, नये ( पाठा०-राजा) 'साहसाङ्क' नामक गौडदेशाधीशके चरितमें 'चम्पू' काव्यकी रचना करनेवाले उस (श्रीहर्ष) के रचित, 'नलचरित' अर्थात् 'नैषधचरित' नामक महाकाव्यमें स्वमावतः सुन्दर यह बाइसवा सर्ग समाप्त हुआ। ( शेष व्याख्या चतुर्थ सर्गके समान जाननी चाहिये ) // 149 // अथ कविप्रशस्तिः / यथा यूनस्तद्वत्परमरमणीयाऽपि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते ? / मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषानादरभरैः // 1 // यथेति / यथा परमरमणीयापि रमणी यूनस्तरुणस्य कामिनोऽन्तःकरणहरण कुरुते, तद्वत्तथा कुमाराणां बालिशानां क्षीरलाभमात्रेण परमपुरुषार्थप्राप्तिमभिमन्य. मानानामनुभूतकामसुखानां चित्तं स्ववशं कैव कुरुते ? अपि तु-न कापि / तथेयं काव्यरचनारूपा परमरमणीया मदुक्तिरपि श्रवणमननादिवशात्सुधीभूयामृतत्वं प्राप्य सुधियः सकलदर्शनरहस्यवेदिनोऽतिसरसस्य पण्डितस्य चेतश्चेद्यदि मदयति आन न्दयति तस्याः सुधियाऽत्याहताया मदुक्तेररसानां नीरसानां सर्वथैवासंस्पृष्टरस. शब्दार्थानामपि चलदुपलप्रायाणामतृणादापुच्छपशूनामनादरभरैस्तस्कृतावज्ञासमू है। किं नाम स्यात् , अपि तु न किंचिदप्यस्यास्तैरपकर्तुं शक्यते / सुधीभिराहते सति नीरसैरकृते कृते वाप्यादरे न किंचिदित्यर्थः / सुधीभिराहतत्वात्सकलगुणपूर्णातिसर. सेयं मदुक्तिरिति भावः / मदुक्तेः सुधारूपत्वाभावारक्षोदानन्तरं च सरसत्वप्रतीतेः सुधारवारसुधीभूयेति चिः / सुधिय इति जास्यभिप्रायेण / एकेनापि सुधियादरे कृते महद्वगौरवम्, बहुभिरप्यज्ञेरनादरेषु कृतेष्वपि न किंचिल्लाघवमित्यभिप्रायेण वा। 'यूनः' इति प्रतियोगिन एकवचनान्तवाच्चैकवचनम् / कवेः स्वग्रन्थमुद्दिश्येयमुक्तिः। अत्यधिक सुन्दरी भी नायिका जैसा युवकोंके अन्तःकरणको आकृष्ट करती है, वैसा कुमारों के अन्तःकरणको कौन आकृष्ट करती है ? अर्थात् कोई नहीं (इस कारण ) मेरी
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy