________________ द्वाविंशः सर्गः। 1526 शृङ्गारभृङ्गारसुधाकरेण वर्णस्रजाऽनूपय कर्णकूपौ / त्वचारुवाणीरसवेणितीरतृणानुकारः खलु कोषकारः / / 57 / / __ शृङ्गारेति / हे प्रिये ! त्वं शृङ्गाररससंबन्धी भृङ्गारः स्वर्णकलशस्तद्रूपेण सुधा. करेण चन्द्रेण हेतुना वर्णनजा कृत्वा मम कर्णकूपी अनूपय जलपूर्णौ कुरु। वर्णस्रजः सरसत्वाकर्णकूपयोर्जलपूर्णस्वकरणं युक्तम् / अथ च-शृङ्गाररससंबन्धिस्वर्णकलशस्य भवन्मुखस्य संबंधि यत्पीयूषं तस्याकरेण खनिभूतया सरसया वर्णस्रजा कर्णकूपा. वनूपय / खलु यस्मात् कोषकार इतुविशेषस्तव चारुवाण्या वक्रोक्त्यादिरूपाया वाचः संबंधिनः शृङ्गारादयो रसास्तेषां वेणिःप्रवाहस्तस्यास्तीरे समुद्यद्यत्तणं तस्यानुकारस्तत्सदृशः। अतिस्वादुरसोऽपीविशेषो यदीयसरसवाणीतीरतृणमनुकरोति, मतु समो जातः। तां वाणी श्रावय, चन्द्रं वर्णयेति भावः / 'कोषकाराचा इविशेषाः' इति क्षीरस्वामी / अनूपय, 'अनूप' शब्दात् , 'तत्करोति-' इति णिचि लोट् / / 57 // (हे प्रियतमे !) शृङ्गारकी झारी (कलस-विशेष ) तथा अमृतका आकर वर्णमाला (चन्द्रवर्णन के अक्षरसमूह ) से मेरे कानरूपी कूपोंको ( अमृतजलसे ) पूर्ण करो, क्योंकि कोषकार ( इक्षु-विशेष-एक प्रकारका उत्तम जातीय गन्ना ) तुम्हारी सुन्दर वाणीरूपी अमृतरसके प्रवाहके तीरपर ( उत्पन्न होनेवाले) तृगके समान है। [ अत्यन्त मधुरतम जो गन्न। तुम्हारे वचनामृतरसके प्रवाहके तीरपर उत्पन्न तृगके समान है ( उस तृणके समान है न कि उक्तरूप तृण है अर्थात् उस तृणसे भी हीन है ), अतः उस गन्नेको तुम्हारे वचनामृतकी समानता करना तो बहुत-बहुत दूरकी कल्पना है। तुम भी चन्द्रका वर्णनकर मेरे कानोंको तृप्त करो] // 57 // अत्रैव वाणीमधुना तवापि श्रोतुं समीहे मधुनः सनाभिम् | इति प्रियप्रेरितया तयाऽथ प्रस्तोतुमारम्भि शशिप्रशस्तिः / / 58 // अत्रैवेति / इति प्रियेण प्रेरितया तया भैम्याथानन्तरं शशिनः प्रशस्तिर्माहात्म्यं प्रस्तोतुमारम्भि प्रारब्धा / इति किम् ? हे भैमि ! अहमत्रैव चन्द्रवर्णन एव विषये मधुनोऽमृतस्य सनाभिं तुल्यां तवापि वाणीमधुना श्रोतुं समीहे इच्छामीति // 58 // इस समय मैं इस चन्द्रके विषयमें हो मधुतुल्य तुम्हारे वचनको सुनना चाहता हूं। इस प्रकार ( 20156-58) प्रियसे प्रेरित उस दमयन्तीने चन्द्रप्रशस्तिका वर्णन करना आरम्भ किया // 58 // पूरं विधुर्वर्द्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणि कियन्ति | पयांसि दोग्धि प्रियविप्रयोगसशोककोकीनयने कियन्ति / / 56 // पूरमिति / हे प्रिय ! अयं विधुः पयोधेः पूरमागन्तुकजलप्रवाहं वर्द्धयितुमेणामणिं चन्द्रकान्तं कियन्ति पयांसि दोग्धि तस्माद् गृह्णाति तथा,-प्रियस्य चक्रवाकस्य विप्रयोगेन सशोकायाः कोक्या नयने अपि कियन्ति जलानि दोग्धि, ताभ्यामपि