________________ एकविंशः सर्गः। सरस्वतीको रखनेसे लक्ष्मीकी अपेक्षा सरस्वतीको अधिक गौरव देते हैं ] अत एव विष्णु भगवान्की प्रियतमा सरस्वतीके द्वारा ही उनको प्रसन्न करना उचित समझकर सुवर्णकमलादि अनेक बहुमूल्य पदार्थोंसे पूजन करने पर भी सन्तोष नहीं होनेसे वे नल सूक्तिरूप मोतियों के हाररूप उपहार ( भेट ) से विष्णु भगवान् की स्तुति करने लगे। [ लोकमें भी कोई किसीको सुवर्णादि समर्पण करके उसे शीघ्र प्रसन्न करनेके लिए मोतीके हारोंको उपहार में देता है / पूजाके बाद नल विष्णुकी स्तुति करने लगे ] // 48-49 // दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधास्तव निन्दा / तत् क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत् / / 50 / / दूरत इति / हे भगवन् ! ते तव, रूपं स्वरूपम्, अवाग्विषयः वाचामगोचरः, 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इत्यादि तेरिति भावः / स्तुतिः स्तवः, दूरतः दूरे, कत्तु मशक्या इत्यर्थः / यस्य तव स्वरूपं वाचामतीतं तस्य तव स्तुतिः कथं कत्त शक्येत ? कथमपि नेत्याशयः। एवञ्च अस्मदभिधाः अस्माकमुक्तयः, अस्मदीया स्तुतिरित्यर्थः / तव भवतः, निन्दा कदर्थना, भवतीति शेषः / अनन्तगुणस्य तव अत्यल्पगुणप्रकाशकत्वात् वागविषयम्य च वाचा वर्णनात् तिरस्कार एवेत्यर्थः / अत एव अहं नलः, यत प्रलपामि अनर्थकं वच्मि, 'तत् प्रलापवचनम् क्षमस्व सहस्व, मार्जयेत्यर्थः / इत्युक्तिः एवं-वचनम्, पूर्व प्रथमं यस्मिन् तद् यथा भवति तथा, अयं नलः, एतद् वक्ष्यमाणम्, अवोचत् उक्तवान् // 50 // (हे भगवन् ! ) तुम्हारा स्वरूप वचनातीत है ( अतः तुम्हारी ) स्तुति दूर है, अर्थात नहीं की जा सकती ( इस अवस्थामें ) हमारा कथन ( आपकी स्तुतिरूपमें मत्कृत वर्णन, वर्णनातीतका स्वल्प शब्दोंमें वर्णन करने के कारण ) तुम्हारी निन्दा है। इस कारणसे 'मैं ( तुम्हारी स्तुति के रूपमें ) जो कुछ प्रलाप करता हूँ, उसे आप क्षमा करें। ऐसा कहकर नल यह ( 21150-103 ) कहने (विष्णु भगवान्की स्तुति करने ) लगे // 50 // स्वप्रकाश ! जड एव जनस्ते वर्णनं यदभिलष्यति कर्तुम् / / नन्वहपतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् / / 51 // स्वेति / स्वप्रकाश ! हे स्वयंप्रकाश ! अन्यनिरपेक्षप्रकाशरूप ! विष्णो ! 'एष आस्मा स्वप्रकाशः' इति वेदान्तादिति भावः / जडः मूढः, अविद्याऽऽच्छन्नः इति यावत् / एषः अयम, जनः लोकः, ते तव, चिन्मयस्येति भावः। वर्णनं गुणकीत नम् , कत्त विधातुम्, यत् अभिलष्यति वान्छति, ननु भो विष्णो !, सः तादृश. वर्णनाभिलाषा, अहर्पतेः सूर्यस्य, सहः तेजः, प्रति लक्ष्यीकृस्य, तमसः अन्धकारस्य, प्रकाशने प्रकटने, स्वाविर्भावविषये इत्यर्थः। रसः वाम्छा, न स्यात् किम् ? न भवेत् किम् ? अपि तु स्यादेव इत्यर्थः। स्वप्रकाशस्य तव वर्णने जडस्य ममाभि 1. '-दभिधा तव' इति पाठान्तरम् /