________________ * सप्तदशः सर्गः। 1055 एकका वह पापादिजन्य नरक आदि फल किसी दूसरे व्यक्तिको भी होना चाहिये, इस अवस्थामें भी स्वयं फलभोक्ता नहीं होने के कारण स्वच्छन्द होकर प्रत्यक्षतः आनन्ददायक परस्त्रीगमनादि पाप कर्म करने में कोई हानि नहीं होती ] // 51 // .... मृतः स्मरति कर्माणि मृते कर्मफलोमयः / अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्त्तवार्त्तया / / 52 / / नन्वत्रागमो बलवदस्ति प्रमाणमत आह-मृत इति / मृतः परेतः, कर्माणि स्वकृतानि, स्मरति आध्यायति, मृते परेते जन्ती, कर्मणां पापपुण्याधनुष्ठानानां, फलोर्मयः सुखदुःखसन्तानाः, भवन्तीति शेषः / अन्यभुक्तैः श्राद्धादिषु ब्राह्मणभो. जनः मृते प्रेते, तृप्तिः सन्तोषः, भवति इति शेषः। इति एवं, धूर्तवार्तया धूर्तानां परप्रतारणया स्वस्य उपजीविका निर्वाहतां, वार्तया वृत्तान्तेन, वाक्येन इति यावत् , अलं निष्प्रयोजनम् , आगमोऽपि कस्यचित् प्रलाप एव, अतो न विश्वसि. तम्यम् इति भावः / देहात्मवादिमते देहनाशे स्मृति भोग तृप्तीनां सामानाधिकरपयासम्भवात् तादृशवाक्यमप्रामाणिकमिति भावः // 52 // .. मृत प्राणी पूर्व जन्मोंका स्मरण करता है, मरनेपर (पुण्य-पापादिजन्य ) फलोंकी परम्परा होती है और ( ब्राह्मण आदि ) दूसरे लोगोंके भोजनसे मृत प्राणीकी तृप्ति होती है; ( स्वार्थसाधक ) धूर्तीकी यह बात व्यर्थ है। [ देहभिन्न 'आत्मा' नामक पदार्थ कोई भी नहीं होनेसे मरनेपर पूर्वजन्मस्मृति, पूर्वकृत पुण्य-पापादिकर्मोके फलोंको भोगना और श्राद्धादिमें ब्राह्मण आदिके खानेसे मृतात्माकी तृप्ति होना इत्यादि प्रतिपादन करनेवाले शास्त्रीय वचन धूर्तीके बनाये हुए होनेसे अंश्रद्धेय हैं, अतः उनपर आस्था कर तदनुसार आचरण करना मूर्खता है ] // 52 // . एक सन्दिग्धयोस्तावद् भावि तत्रेष्टजन्मनि / __हेतूनाहः स्वमन्त्रादीनसाङ्गानन्यथा विटाः / / 53 // धौर्त्यप्रकारमेवाह-एकमित्यादि। सन्दिग्धयोः सम्भवासम्भवाभ्यां संशयितयोः, पुत्रादिलाभालाभरूपेष्टानिष्टफलयोर्मध्ये इति भावः। एकम् इष्टमनिष्टं वा अन्यतरत् फलमिति शेषः / तावत् अवश्यमेव, भावि भविष्यति, तत्र तयोर्मध्ये, इष्टजन्मनि इष्टसिद्धौ सति, विटाः धूर्ताः, स्वमन्त्रादीन् निजमन्त्रादिप्रयोगान् , हेतून कारणभूतान् , आहुः वदन्ति, मयेतन्मन्त्रजपादिकं कृतं तत एव तव पुत्रादीष्टलाभोऽभूदिति आत्मश्लाघां कुर्वन्तीति भावः। अन्यथा तदसिद्धौ, असाङ्गान् 1. 'जन्मानि' इति पाठान्तरम् / / 2. 'अन्यभुक्तानि' इति पाठान्तरम् / तथा 'अन्यभुक्तानि तत्तृप्तिः' इत्येवं मूलपाठः 'प्रतिभाति' इति म०म० शिवदत्तशर्माणः / 3. 'हेतुमाहुः' इति पाठान्तरम्।.