________________ 712 नैषधमहाकाव्यम् / वीरादस्मात् परः कः पदयुगयुगपत्पातिभूपातिभूय श्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः // 18 // आसीदिति / वीरात् अस्मात् पाण्ड्यात् , परोऽन्यः, को वीरः, सीमाया आ इत्यासीमं समुद्ररूपसीमामभिव्याप्य, सीमासहितमिति यावत् , अभिविधावव्ययी. भावः, यत् भूमिवलयं तस्य मलयजालेपनेपथ्यं मलयजेन चन्दनेन, यत् आलेपः अङ्गरागः, तद्रूपं यत् नेपथ्यं भूषणं, तदिव कीर्तिर्यस्य सः, आसमुद्रक्षितिं व्याप्य विस्तृतयशःसौरभ इत्यर्थः, सप्तानाम् अकूपारपाराणां समुद्रपरतीराणां समाहारः सप्ताफूपारपारी 'तद्धितार्थ-' इत्यादिना समाहारदिगो डीप , सदनं येषां तैः तत्रस्थ. जनः घनं निरन्तरम् , उद्गीतश्चापप्रतापो धनुषो माहात्म्यं, चापश्च प्रतापश्च वा यस्य सः, पदयुगे चरणयुगले, युगपत्पातिनां समकालं नमस्कारकारिणां, भूपानाम् अति. भूयांसि अतिबहुलानि, चूडारत्नान्येव उदुपत्न्याः क्षुद्रत्वात् वर्तु लत्वाच्च नक्षत्ररूपाः स्त्रियः, तासां करा अंशवो हस्ताश्च, 'बलिहस्तांशवः कराः' इत्यमरः,तेषां परिचरणेन परामशन, अमन्दम् अतिमात्रं, नन्दन्तः उल्लसन्तः, नखाः पदनखाः, एवेन्दवो यस्य स तादृशः, आसीत् ; यशः सुरभिताऽऽसमुद्रक्षितिमण्डलः दिगन्तविश्रान्तप्रतावः खमस्तराजवन्द्यश्वायमेव नान्यः कश्चिदित्यर्थः / अत्र रूपकालङ्कारः // 18 // सीमा ( समुद्र ) तक पृथ्वीमण्डलके चन्दनलेप रूप भूषणके समान अथवा-भूषणरूपा कीर्तिवाला, सात समुद्रोंके परतीरसमूह रूप घर में रहने वाले लोगोंसे निरन्तर उच्च स्वरसे गाये गये धनुःसम्बन्धी प्रतापवाला, दोनों चरणोंपर एक साथ गिरते ( प्रणाम करते ) हुए राजाओंके बहुत से मुकुटोंके रत्न रूपी ताराओंके किरणों के घूमने ( चारो ओर फैलने पक्षा-हार्थोके द्वारा की गयो सेवा ) से अत्यन्त आनन्दित ( शोमित ) होते हुए नखरूपी चन्द्रवाला इस वीरसे श्रेष्ठ ( अथवा-वीरके अतिरिक्त ) दूसरा कौन राजा है ? अर्थात् उक्त गुगोंवाला एक मात्र यही वोर राजा है, अन्य कोई नहीं। [ दिगन्त तक फैले हुए प्रतापवाले * तथा समस्त राजाओंसे नमस्कृत महाप्रतापी इस पाण्ड्य राजा का वरण करो] // 18 / / भङ्गाकीर्तिमसोमलीमसतमप्रत्यर्थिसेनाभटश्रेणीतिन्दुककाननेषु विलसत्यस्य प्रतापानलः / अस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतभवाक्षिभानुहुतभुगजम्भारिदम्भोलयः / / 16 // भङ्गेति / अस्य पाण्ड्यस्य, प्रताप एवानलः भङ्गेन पराजयेन, या अकीर्तिः, श्या. मत्वादिति भावः, सैव मसी तया मलीमसतमाः अत्यन्तमलिनाः, प्रत्यर्थिसेनाभट. श्रेण्यः शत्रुसैनिकवीरसमूहाः एव, तिन्दुककाननानि श्यामस्वात् कालस्कन्धवनानि, 'तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके' इत्यमरः, तेषु विलसति प्रज्वलति / भालोद्भुतभवाक्षि भालाललाटात् , उद्भूतं भवाति हरतृतीयनेत्रं, तच्च भानुश्च सूर्यश्च,