________________ 710 नैषधमहाकाव्यम् / न्ध्वादिशब्दाः सादृश्यवाचका इत्याहुः, इमां भैमी प्रति शशंस, दमयन्तीम् आमन्त्र्य आचख्यावित्यर्थः // 14 // स्वरामृतसे मत्त कोयलको तिरस्कृत करनेवाली दूसरे युवकको हाथसे बतलाती हुई वह सरस्वती देवी चन्द्रमुखी ( दमयन्ती ) के प्रति बोली // 14 // न पाण्डयभूमण्डनमेणलोचने ! विलोचनेनापि नृपं पिपाससि ? / शशिप्रकाशाननमेनमीक्षितुं तरङ्गयापाङ्गदिशा 'शस्त्विषः / / 15 // नेति / एणलोचने ! हे मृगाक्षि ! पाण्ड्यभूमण्डनं पाण्ड्यदेशस्य भूषणं, तद्दे. शस्य चूडामणिस्वरूपमिति यावत् नृपं विलोचनेनापि न पिपाससि ? पातुं न इच्छसि ? साग्रहदृष्टिदानेनापि एनं सुखयितुं न इच्छसि किम् ? इति भावः, शशि प्रकाशाननम् इन्दुसुन्दरास्यम्, एनम अपाङ्गदिशा कटाक्षमागंणापि, नेत्रप्रान्तेनापि इत्यर्थः, ईतितुं दशस्विषः चक्षुषोः ज्योतींषि, तरङ्गय प्रवर्त्तय, एनं साग्रहं द्रष्टं नेच्छसि चेत् न पश्य, परन्तु कटाक्षविक्षेपेणापि सकृदेव एनं पश्येति भावः / अत्र एणलोचने इत्यस्य एणस्य लोचने इव लोचने यस्यास्तत्सम्बुद्धौ, अत एवात्र निदर्श नालङ्कारः। एवमुत्तरत्राप्येवंविधस्थले बोध्यः // 15 // हे मृगलोचने ( दमयन्ति ) ! पाण्डय (देश) की भूमि के भूषण राजाको नेत्रसे मी पान करना ( देखना ) नहीं चाहती ? ( अधरसे पान करना नहीं चाहती तो भले मत चाहो, किन्तु नेत्रसे भी पान करना ( देखना ) नहीं चाहती यह तो अनुचित है; अत एव ) चन्द्र के समान प्रकाशमान मुखवाले इसे देखने के लिये नेत्रकान्तिको कटाक्षप्ते तरङ्गित करो अर्थात् अतिरमणीय इस राजाको देखो // 15 // भुवि भ्रमित्वाऽनवलम्बमम्बरे विहतमभ्यासपरम्परापरा। अहो ! महावंशममुं समाश्रिता सकौतुकं नृत्यति कीर्त्तिनर्तकी / / 16 / / भुवीति / कीर्तिरेव नर्तकी लासिकी, 'शिल्पिनि वुन्' इत्यत्र 'नृतिखनिरञ्जिभ्य एव' इति नृत्यतेः वुन्-प्रत्ययः। 'षिदौरादिभ्यश्च' इति ङीप, भुवि भूतले, भ्रमित्वा भूचारिणी भूत्वेत्यर्थः, अथ अम्बरे आकाशे, अनवलम्बं निरालम्बं यथा स्यात् तथा, विहत विचरितुम्, अभ्यासानां परम्परा श्रेणिः, सेंव परं प्रधानं यस्याः सा ताहशी सती, अम्बरदेशे नत्तनाभ्यासासक्ता सतीत्यर्थः, महावंशं महाकुलीनं महावेणुञ्च, 'वंशो वेणी कुले वर्गे' इति विश्वः, अमुं पाण्डयं, समाश्रिता सती सकौतुकं यथा तथा नृत्यति अहो ! आश्चर्यम्; यथा काचित् नर्तकी प्रथमं भुवि भ्रमित्वा वियति निरालम्बं भ्रमणार्थ वेणुमाश्रित्य नृत्यति तद्वत् कीतिरपि नृत्यति इति निष्कर्षः। अत्र रूप. कालङ्कारः // 16 // पृथ्वीपर घूमकर अवलम्बरहित आकाशमें विहार करने के लिये अभ्यास-परम्परामें 1. 'दृशो-' इति पा०।