________________ 524 नैषधमहाकाव्यम् / कराकर तृगवत् अपने लिए सरस्वतीरूप बन्धुरत्नको नहीं नष्ट करूंगी। अन्य भी कोई चतुर व्यक्ति तृणके लिये रत्नको नष्ट नहीं करता, अतएव अपनी स्वार्थ-सिद्धि के लिए बन्धुरत्न सरस्वती देवीको देवताओंका शत्रु बना देना उचित नहीं है ] // 51 // यः स्यादमीषु परमार्थनलः स मालामङ्गीकरोतु वरणाय ममेति वैताम् | तं प्रापयामि यदि तत्र विसृज्य लज्जा कुर्वे कथं जगति शृण्वति ? हा विडम्बः / / 52 / / य इति / अमीषु पञ्चसु मध्ये, यः परमार्थनलः स्यात् स परमार्थनलः, मम वरणाय मालां वरणस्रजम् , अङ्गीकरोतु स्वीकरोतु, तत्र सभामध्ये, लज्जां विसृज्य इति उक्त्वा वा एतां मालां, यदि तं सत्यनलं प्रापयामि तदा जगति निखिलसभास्थलोके, शृण्वति सति कथं कुर्वे ? हा कष्टं, विडम्बः परिहासः; तादृशोक्त्या मम निर्लज्जता प्रकटीभविष्यति तत् श्रुत्वा च सभास्थाः सर्वे लज्जाहीनतया मां परिहसि. प्यन्तीति भावः // 52 // इन ( पांच नलों ) में-से 'जो वास्तविक नल हो, वह मुझे वरण करने के लिए इस मालाको स्वीकार करे' ऐसा कहकर ( या इस प्रकार ) यदि जयमालाको उसे ( नलको) प्राप्त कराऊं तो स्वयंवर में लोगोंके ( मेरी इस बातको) सुनते रहनेपर लज्जाको छोड़कर मैं यह कैसे करूं ? हा कष्ट है कि यह परिहासका कार्य है [ अर्थात् मेरे ऐसे कहनेपर स्वयंवर में उपस्थित जनता मेरा परिहास करेगी कि दमयन्तीने लजाको छोड़कर इस प्रकार नलको जयमाल पहनाया ] // 52 / / इतरनलतुलाभागेषु शेषः सुधाभिः स्नपयति मम चेतो नैषधः कस्य हेतोः / प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये विलसति चरमेऽनुप्रासभासां विलासः / / ___इतरेति / एषु पञ्चसु मध्ये, इतरेषां चतुर्णा, नलानां तुलाभाक सादृश्यभाक, शेषः पञ्चमः, नैषधः कस्य हेतोः केनापि कारणेन, 'षष्ठी हेतुप्रयोगे' इति षष्ठी, मम चेतः सुधाभिः स्नपयति; 'सतां हि सन्देह पदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः' इति न्यायादनेनैव सत्यनलेन भाव्यमिति मन्ये इति भावः। सत्यनलत्वप्रमापिका. महैतुकी मनःप्रीतिं दृष्टान्तेन द्रढयति-प्रथमेति / प्रथमचरमयोः पूर्वोत्तरयोः द्वयोः, शब्दयोः वर्णसख्ये अक्षरसाम्ये सत्यपि, चरमे उत्तरे शब्दे, अनुप्रासो वर्णावृत्तिलक्षणः छेकानुप्रासादि-शब्दालङ्कारः, तस्य भासां शोभानां, विलासो वा चमत्कारिता एव, 'वा स्यात् विकल्पोपमयोरेवार्थेऽपि समुच्चये' इत्यमरः, विलसति स्फुरति, तथा च अनुप्रासस्थले अन्तिमशब्दे वर्णसाम्यं यथा चमत्कारविधायकं भवति, तद्वदन्तिमे 1. 'चैताम्' इति पाठान्तरम्। 2. 'तत्तु' इति पाठान्तरम् /