________________ 682 नैषधमहाकाव्यम् / एतामिति / वाणी वाग्देवी, कुमारी च सा निपुणा चेति तां कुमारनिपुण कुमारीत्वेऽपि नल तदितरयोः वैशिष्टयाभिज्ञामिति भावः, 'कुमारः श्रमणा. दिभिः' इति समासः / 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः / अथवा-कोः पृथिव्याः, मारे कन्दर्पभूते नले इत्यर्थः, निपुणाम् आसक्ताम्, एतां भैमी, पुनरप्य. भाणीत् अवोचत् ; हे सरोजमुखि ! अस्मिन् नृपे, असङ्कुचितेन विकसितेन, पङ्कजेन सह सख्यशिक्षायां मैत्रीकरणे, निष्णातया कुशलया, तत्सदृशया इत्यर्थः 'निनदीभ्यां स्नातः कौशले' इति षत्वम् / दृष्टया परिरम्भविजम्भितानि आलिङ्गनचेष्टितानि, निर्भर गाढम्, आरमस्व कुरु, एनं पश्येत्यर्थः // 102 // सरस्वती देवी ( नल तथा दूसरे राजाओं के गुणों के तारतम्यको जाननेसे ) उस निपुण कुमारी ( दमयन्ती ) से फिर बोली-हे कमलमुखि ( दमयन्ति )! इस ( राजा ) में विकसित कमलके समान शिक्षा ( दर्शनाभ्यास ) में चतुर दृष्टिके आलिङ्गनके विलासोंको अच्छी तरह आरम्भ करो अर्थात विकसित कमलतुल्य प्रफुल्लित नेत्रोंसे इस राजाको अच्छी तरह देखो // 102 // प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थपृथ्वीधरः पृथुरयं मथुराऽधिनाथः / अश्मश्रुजातमनुयाति न शर्वरीशः श्यामाङ्ककर्बुरवपुर्वदनाब्जमस्या॥१०३।। प्रत्यर्थीति / प्रत्यर्थिपार्थिवपयोनिधिमाथे वैरिभूपाब्धिमन्थने, मन्थपृथ्वीधरो मन्थाचलः मन्दरः, अतिवीर इत्यर्थः, पृथुर्महान् अयं पुरोवर्ती नृपः, मथुराऽधिनाथो मथुरानगरीशः, जातं श्मश्रु अस्य इति श्मश्रुजातं, तन्न भवतीति अश्मश्रुजातम् आहिताग्न्यादित्वान्निष्ठायाः परनिपातः। अनुत्पन्नश्मश्रु, अस्य राज्ञः, वदनाब्ज मुखपद्म, श्यामेन अङ्केन कलङ्केन कर्बुरवपुः शवलाङ्गः, शर्वरीशः चन्द्रः, नानुयाति नानुकरोति, सकलङ्कनिष्कलङ्कयोः कुतः साम्यमिति भावः। अश्मश्रजातम् इति वयःसन्धौ वर्तमानः एष तव वरणयोग्य इति तात्पर्यम् // 103 // यह शत्रु राजारूप समुद्रोंके मथन करनेमें मन्दराचलरूप पृथु 'पृथु' नामक, (पक्षाविशाल ) मथुरापुरीका राजा है, श्याम वर्ण चिह्नसे कबुरित शरीरवाला अर्थात् सकलङ्क चन्द्रमा इसके दाढ़ी नहीं जमे हुए मुखकी बराबरी नहीं करता है / [ सकलङ्कपूर्ण चन्द्रकी अपेक्षा इसका दादीरहित मुख सुन्दर है / तथा यह कुमार और युवावस्थाके मध्यमें है ] // बाले ! ऽधराधरितनकविधप्रबाले ! पाणौ जगद्विजयकार्मणमस्य पश्य। ज्याऽघातजेन रिपुराजकधूमकेतुतारायमाणमुपरज्य मणिं किणेन // 104 // बाले इति / अधरेण भोष्ठेन, अधरिता अधरीकृता, नेकविधा अनेकविधाः, नजसमासः, प्रवालाः विद्रुमपल्लवरूपाः यया सा तथाविधे! हे बाले ! अस्य मथु. रेश्वरस्य, पाणी जगद्विजयस्य कार्मणं वशीकरणौषधं ज्याऽऽघातजेन किणेन ग्रन्थिना उपरज्य उपरागं प्राप्य, श्यामवर्णतां प्राप्येत्यर्थः, स्थितमिति शेषः, रिपोः शत्रुभूतस्य,