________________ एकादशः सर्गः। तत्रानुतीरवनवासितपस्विविप्रा सिप्रा तवोर्मिभुजया जलकेलिकाले। आलिङ्गनानि दधती भविता वयस्या हास्यानुबन्धरमणीयसरोरुहाऽऽस्या।। तत्रेति / तत्र अवन्तिदेशे, अनुतीरं तीरे, विभक्त्यर्थे 'यस्य चायामः' इति तहेर्यसदृशदैोपलक्षितार्थकेनानुशब्देन वा अव्ययीभावः / यानि वनानि यावत्तीरमायतानीत्यर्थः, तद्वासिनस्तपस्विनो विप्रा यस्याः सा, सिप्रा नदी, तव जलकेलिकाले हास्यं विकासः स्मितञ्च, तदनुबन्धेन तद्योगेन, रमणीयं सरोरुहमेव आस्यं यस्याः सा सती, ऊर्मिरेव भुजा तया आलिङ्गनानि दधती कुर्वती, वयस्या भविता सखी भविष्यति / यथा सहास्यवदना सखी केलिसमये बाहुभ्यां आलिङ्गति तथा सिप्राऽपि त्वाम् आलिङ्गिष्यति इति समासोक्तिरलङ्कारः॥ 89 // . उस ( अवन्ती देश ) में तटके वनों में निवासी तपस्वी ब्राह्मणों वाली, तुम्हारी जल. क्रीडाके समयमें तरङ्गरूप भुजाओंसे आलिङ्गन देती (करती) हुई तथा हँसने के नैरन्तर्य ( संबन्ध ) से रमणीय कमलरूपी ( पक्षा०-कमलतुल्य ) हासवाली 'सिप्रा' नदी तुम्हारी ( सखी ब नेगी। [जिस प्रकार कोई सखी आलिङ्गन करती तथा इंसती है, उसी प्रकार अवन्तीदेशस्थ सिप्रा नंदी तुम्हारी जलक्रीडाके समयमें बाहुतुल्य तरङ्गोसे आलिङ्गन तथा विकसित कमलोंसे हास करती हुई तुम्हारी सखी-सी प्रतीत होगी। इस अवन्तिनरेशको वरणकर सिप्रा नदीमें जलक्रीडा करो)॥ 89 // अस्याधिशय्य पुरमुजयिनी भवानी जागर्ति या सुभगयौवनमौलिमाला / पत्याऽर्द्धकाय घटनायमृगाक्षि ! तस्याः शिष्या भविष्यसि चिरं वरिवस्ययाऽपिः // 90 // अस्येति / भवस्य पत्नी भवानी पार्वती, 'इन्द्रवरुणंभव-' इत्यादिना ङीष् , आनुगागमश्च, अस्य अवन्तिनाथस्य, उज्जयिनी पुरमधिशय्य अधिष्ठाय, 'अययि क्ङिति' इत्ययङ आदेशः; 'अधिशीस्थासां कर्म' इति अधिकरणस्य कर्मत्वम् / जागर्ति प्रकाशते, या भवानी, सुभगस्य पतिवल्लभस्य, यौवतस्य युवतिसमूहस्य, मौलिमाला शिरोभूषणम् / हे मृगाक्षि! पत्या भर्ना सह, अर्द्ध कायस्या कायः, 'अर्द्ध नपुंसकम्' इति समासः। तस्य घटनाय एकीभावसम्पादनायेत्यर्थः, तस्या भवान्याः, चिरं वरिवस्यया परिचर्यया, 'नमोवरिवश्चित्रङः क्यच' इति क्यचप्रत्ययः, ततः 'अ प्रत्ययात्' इति स्त्रियामकारप्रत्यये टाप / शिष्याऽपिः भविष्यसि, न केवलं पूर्वोक्तसिप्राविहारादिसम्पत्तिरेव किन्तु सर्वसौभाग्यभूतं भवानीशिष्य. त्वमपि ते भविष्यतीत्यर्थः; भवानीवत् पत्या सह तव क्षणमपि विरहो न भविष्यतीति भावः॥९०॥ __ हे मृगनयनि ( दमयन्ति ) ! सुन्दरी युवतियों के समूहकी शिरोमाला ( युवतियों में परमसुन्दरी) जो पार्वती इस ( अवन्तिनरेश) की उज्जयिनी नगरीमें रहती है, उस (पार्वती ) की पूजासे मी चिरकालतक पतिकी अर्धाङ्गिनी बननेके लिये शिष्या होवोगी।