________________ 664 नैषधमहाकाव्यम्। विप्रे धयत्युदधिमेकतमं प्रसत्सु यस्तेषु पञ्चसु विभाय न शीधुसिन्धुः। तस्मिन्ननेन च निजालिजनेन च त्वं सार्द्ध विधेहि मधुरा मधुपानकेलीः॥ विप्रे इति / शेरते अनेनेति शीधुः आसवः, 'मैरेयमासवः शीधुः' इत्यमरः। शीडो धुक-प्रत्यय औणादिकः यः शीधुसिन्धुः आसवसमुद्रः, विप्रे अगस्त्ये, एकतमम् उदधिं लवणसमुद्र, धयति पिवति सति, लटः शतृ-प्रत्ययः, तेषु पञ्चसु दधिः मण्डादिसमुद्रेषु, सत्सु अयमस्मानपि पास्यतीति मरवा बिभ्यत्सु सत्सु, न विभाय स्वयं न भीतः, 'ब्राह्मणो न सुरां पिबेत्' इति निषेधादिति भावः, तस्मिन् सुराब्धौ, अनेन राज्ञा च, निजेन आलिजनेन च सार्द्ध मधुराः मनोहराः, मधुपानकेलीः मद्यपानक्रीडाः, विधेहि कुरु // 68 // ब्राह्मण ( अगस्त्य मुनि ) एक समुद्र (क्षारसमुद्र ) को पीने लगे तब दूसरे पांच समुद्र (क्षीरसमुद्र, दधिसमुद्र, घृतसमुद्र, इक्षुरससमुद्र और मधुरजलसमुद्र) डरने लगे (कि 'हम लोगोंको भी ये अगस्त्य मुनि न पी लेवें, किन्तु 'ब्राह्मणके मदिरा पीनेका निषेध होनेसे हमको ये नहीं पीयेंगे' ऐसा निश्चय कर ) उस समय जो सुरासमुद्र नहीं डरा उसमें इस ( 'वपुष्मान्' ) राजा तथा सखीजनों के साथमें तुम मनोज्ञ मद्यप न क्रीडाओं को करो। [इस राजाके साथ विवाह कर लेनेपर तुम्हारे तथा तुम्हारी सखियों के लिये मद्यपानक्रीडा करना बहुत सरल होगा, अत एव इस राजाके साथ विवाह करो]६८॥ द्रोणः स तत्र वितरिष्यति भाग्यलभ्यसौभाग्यकार्मणमयीमुपदां गिरिस्ते। तद्वीपदीप इव दीप्तिभिरोषधीनां चूडामिलजलदकजलदर्शनीयः // 6 // द्रोण इति / तत्र शाल्मलिद्वीपे, ओषधीनां तृणज्योतिषां दीप्तिभिः तस्य द्वीपस्य दीप इव, स्थितः इति शेषः, अत एव चूडायां शिखरे, मिलनिः सङ्गच्छमानैः, जल. दैरेव कज्जलैः दर्शनीयः दृष्टिप्रियः, स प्रसिद्धः, द्रोणो द्रोणाख्यः, गिरिः, ते तव, भाग्यरेव लभ्यं सौभाग्यं पतिवाल्लभ्यं, तस्य कार्मणं मूलकर्म, ओषधीनां मूलैः साध्यं वशीकरणादिरूपं कर्म, 'मूलकर्म तु कार्मणम्' इत्यमरः / 'तद्युक्तात् कर्मणोऽण' इति स्वार्थेऽण प्रत्ययः, तन्मयीं तद्पाम, उपदाम् उपायनम्, 'उपायनमुपग्राह्यमुप. हारस्तथोपदा' इत्यमरः। वितरिष्यति दास्यति; उपलक्षणमेतत् , सञ्जीवन्याद्यने. कदिव्यौषधिलाभस्ते भविष्यतीति भावः / अत्र कार्मणमयीमुपदामिति परिणामालकारः, आरोप्यमाणो यदीयस्तद्विषयकार्मणाकारपरिणामेन प्रकृतप्रभुचित्तावर्जनो. पयोगित्वात् आरोग्यमाणमारोपविषयात्मत्वेन स्थितम् ; 'प्रकृतस्योपयोगित्वे परिणाम-उदाहृतः' इति लक्षणात्; अस्य च दीप इवेत्युत्प्रेक्षया संसृष्टिः, तस्यास्तु जलदकजलेतिरूपकेण सङ्करः // 69 // . वहां ('शाल्मल' द्वीपमें ) औषधियों के प्रकाशसे उस द्वीपके दीपक के समान शिखरों में लगे हुए मेघरूप कज्जलसे दर्शनीय वह (प्रसिद्ध ) द्रोण पर्वत तुम्हारे लिए भाग्यसे मिलने