________________ नैषधमहाकाव्यम् / यितं विकटभावम्; अतिशयमित्यर्थः, 'कटः श्रोणौ द्वयोः पुंसि किलि अतिशये शवे' इति मेदिनी, यद्वा-विशालभावं, सौन्दर्यविलसितमित्यर्थः, 'विशाले विकराले च विकटं कवयो विदुः" इति शाश्वतः, विकटशब्दालोहितादिक्यङन्ताद्भावे क्तः / लोहि. तादिराकृतिगणः, वेलावनी कूलभूमिः, 'वेला कुलेऽपि वारिधेः' इति शाश्वतः, तत्र या वनततिर्वनपङ्क्तिः, तस्याः प्रतिबिम्बं चुम्बति स्पृशतीति तच्चुम्बी तस्य तद्यु. तस्य इति यावत्, अत एव किर्मीरितस्य कर्बुरितस्य, नानावर्णमिश्रितस्येति यावत् , 'चित्रं किौरकल्माषशबलैताश्च कर्बुरे' इत्यमरः, ऊर्मिचयस्य तरङ्गपङक्तः, चारिमा चारुता, 'पृथ्वादिभ्य इमनिज वा' इति इमनिचि 'टेः' इति टेर्लोपः / चापलं चाश्चल्यं, युवादित्वादण-प्रत्ययः ताभ्यां, स्मारकाभ्याम् , अध्येतु स्मरतु, अनुकरोतु इति यावत् , 'इक स्मरणे' इत्यस्माल्लोटि शेषत्वविवक्षायाम् 'अधीगर्थ-' इत्यादिना षष्ठीविधानात्तदभावे कर्मणि द्वितीया, तव चक्षुषोः कटाक्षेषु परितः श्वैत्यं मध्ये नीलत्वं चपलता च अतः क्षीरसमुद्रोऽपि तत्सदृशो भवतु इति भावः / अत्र किर्मी रितोर्मिचयस्य सितासितस्वसादृश्यात् तद्विलासस्य कटाक्षविलसितस्मारकत्वात् स्मरणालङ्कारः // 40 // हे विशाल नेत्रोंवाली ( दमयन्ति ) ! वहां ( उस शाकद्वीपमें ) तटको भूमिमें स्थित वनराजिके प्रतिबिम्बको धारण किया हुआ क्षीरसमुद्र ( अतएव ) कर्बुर ( चितकबरे ) तरङ्गसमूहकी सुन्दरता तथा चञ्चलतासे तुम्हारे कटाक्षों की शोभाकी छटा ( परम्परा) के विलासका स्मरण अथवा-[स्वतः श्वेतवर्ण तथा तटभूमिस्थित प्रतिबिम्बित वनराजिसमूहसे कर्बुरित (कृष्णवर्ण) एवं चञ्चल तरङ्गसमूहवाला क्षीरसमुद्र तुम्हारे कृष्ण नील चञ्चल कटाक्ष के समान सुन्दरता प्राप्त करे ] // 40 // कल्लोलजालचलनोपनतेन पीवा जीवातुनाऽनवरतेन पयोरसेन / अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिरध्यास्यते मधुभिदा भुजगाधिराजः / / कल्लोलेति / अस्मिन् क्षीराणवे कल्लोलानां तरङ्गाणां जालस्य वृन्दस्य चलनेन चलनाडा उपनतः प्राप्तस्तेन / जीवातुना उज्जीवकेन 'जीवातुर्जीवनौषधम् इत्यमरः। अनवरतेनाविच्छिन्नेन पय एव रसस्तेन स्वादुक्षीरेण पीवा पीवरः, स्थूलकाय इत्यर्थः / 'पीङ्' धातोः 'अन्येभ्योऽपि दृश्यन्ते' इति कनिपि 'घुमास्थागापाजहातिसां हलि' इतीकारः / अखण्डं सम्पूर्ण यथा स्यात्तथा परिमण्डलिता परितो वेष्टिता, कुण्डलितेति यावत् , उर्वी विशाला मूर्तिः यस्य येन वा सः। भुजगानां सा. णामधिराजः शेषः / मधुं तन्नामकं दैत्यं भिनत्तीति तेन विष्णुना अभ्यास्यते अधिशय्यते / कर्मणि प्रत्ययत्वेन 'अधिशीस्थासां कर्मे ति कर्मणो भुजगाधिराजशब्दात्प्रथमा, मधुमिच्छब्दारकर्तरि तृतीया च बोध्या। अत्र क्षीरसागरे श्रीविष्णुशेषराजो. परि शेत इत्यर्थः // 4 //