________________ 586 . नैषधमहाकाव्यम् / अन्यथा 'दित्यदिति-' इत्यादिना ण्यप्रत्ययस्य पूर्वविप्रतिषेधेन ढगपवादिकत्वात् , लिङ्गविशिष्टपरिभाषा स्वनित्येति गतिः, भाष्यवात्तिकयोरनुक्तत्वादसाधुरिति केचित्, अभियुक्तप्रयोगादभियौक्तिकप्रसिद्धश्च तनाद्रियन्ते, तेषां नीतेः पथि दैत्यनीतिमार्गे, साथ वहतीति सार्थवाहः अग्रणीः, पथप्रदर्शकः इत्यर्थः, कर्मण्यण , स काव्यः कवेरपत्यं शुक्रः, 'कुर्वादिभ्यो ण्यः' सभां तां स्वयंवरसभां, काव्येन प्रबन्धेन, अभाणीत् अवर्णयत् / 'काव्यं ग्रन्थे ग्रहे काव्ये' इति विश्वः // 59 // ___ जो कवि ( शुक्राचार्य ) अत्यन्त शोभमान संस्कृत वचनवाले स्वर्ग में वचनमालाके गुम्फनमें आचार्य (संस्कृत काव्यरचनोपदेश ) को जाननेवाले तथा दैत्योंकी नीति के पथ. प्रदर्शक हैं, उस शुक्राचार्यने (वक्ष्यमाण ) कविता (10 / 60-65 ) से सभाका वर्णन किया / [ शुक्राचार्यने मी स्वयंवर सभाकी प्रशंसा की ] // 59 / / अमेलयद्भीमनृपः परं न नाकर्षदेतान् दमनस्वसैव / / इदं विधाताऽपि विचित्य यूनः स्वशिल्पसर्वस्वमदर्शयन्नः // 60 // अथ षड्भिस्तकाव्यमेवाह-अमेलयदित्यादि। एतान् यूनः, युवजनान् , भीमनृपः परं केवलं, न अमेलयत् स्वयंवरार्थ न मेलितवान् , तथा दमनस्वसा दमयन्त्येव, नाकर्षत् , स्वगुणेनेति शेषः, किन्तु विधाताऽपि विचित्य एकत्र सगृह्य, इदं पुरोवर्ति युवरूपं, स्वशिल्पसर्वस्वं स्वनिर्माणकौशलसम्पदं, नः अस्माकम् , अदर्शयत् / राज्ञः प्रयत्नात् भैमीसौन्दर्यसम्पदा ब्रह्मणः स्वनिर्माणकौशलप्रकाशन. व्यसनाच्चेदं युवमेलनं न त्वेकस्मादित्युत्प्रेक्षा // 6 // ___ अब यहाँसे श्लोक 65 तक पूर्व श्लोकोक्त कविता ( काव्य ) को कहते हैं केवल राजा भीमने ही इन युवकोंको एकत्रित नहीं किया है और दमयन्तीने ही इन युवकों को आकृष्ट नहीं किया है; (किन्तु ) ब्रह्माने भी विचारकर अपनी कारीगरीके सर्वस्व (समस्त कौशल) हम लोगोंको दिखा दिया है। [ राजा भीमके प्रयत्न, दमयन्तीकी सौन्दर्यसम्पत्ति तथा ब्रह्माकी स्वशिल्पकौशल प्रदर्शित करने की इच्छा यह युवकोंका सम्मेलन हुआ है ] // 60 // एकाकिभावेन पुरा पुरारियः पञ्चतां पञ्चशरं निनाय / तद्भीसमाधानमनुष्य-काय निकायलीलाः किममी युवानः 1 // 61 // एकाकीति / यः पुरारिः पुरा एकाकिभावेन असहायत्वेन हेतुना, पञ्चशरं कन्दर्प, पञ्चानां भावः पञ्चता, सा भौतिकस्य शरीरस्य स्वस्वांशस्य स्वेषु स्वेषु प्रवेशः, मरणमिति यावत् , ता निनाय, अमी युवानः अमुष्य कामस्य सम्बधिन्यां तस्मात् पुरारेः, भियः समाधानं निवारणं, निवारका इत्यर्थः, कार्यकारणयोरभेदोपचारः कायनिकायलीलाः शरीरसमूहविलासाः, कामकायव्यूहाः इति यावत् , किम् ? पूर्व महादेवः सहायहीनं कन्दपं संजहार इति कन्दर्पस्यासहायत्वात् ततो भयमासीत् ,