________________ दशमः सर्गः। ... 566 विनयाचरणमेवमाद्यैरुपचारैरायशब्दागोजनादिसंविधानसङ्ग्रहः / चारु सम्यगु. पाचरत् सन्तोषितवान् // 27 // कुण्डिनके स्वामी राजा भीमने सुन्दर प्रासादोंमें ठहराने, अय-पादाय॑ आदि, प्रिय भाषण, पान, माला, चन्दनादिलेप आदिके दान, आदर-सत्कार तथा नम्रता आदिसे राज-समूहका उत्तम सत्कार किया // 27 // चतुःसमुद्रीपरिखे नृपाणामन्तःपुरे वासितकीर्तिदारे / औदार्यदाक्षिण्यदयादमानां चतुष्टयीरक्षणसोविदल्लाः // 28 // युक्तं चैतदित्याह-चतुरिति / चतुःसमुद्रयेव परिखावलयं यस्य तस्मिन् वासिताः स्थापिताः कीर्तय एव दाराः कलत्राणि यस्मिन् तस्मिन् नृपाणां राज्ञामन्तःपुरे पृथिवी. पुरे इति भावः / औदार्य त्यागः दाक्षिण्यं परिचित्तानुवर्तनं दया कृपा दम इन्द्रिययमनं तेषां चतुष्टय्येव रक्षणे रक्षणार्थ, सौविदल्लाः कञ्चुकिनः / 'सौविदल्लाः कञ्चकिनः' इत्यमरः / औदार्यादिगुणचतुष्टयेन नृपाणां कीर्तिः रचयते, तद्विहीनानां कुतः कीर्ति रिति भावः / स्वकीर्तिरक्षणार्थं तेन राज्ञा भीमेन ते राजानः सत्कृता इति तात्पर्यम् / रूपकालङ्कारः // 28 // चार समुद्ररूप परिखा ( खाई ) वाले तथा कीर्तिरूपिणी स्त्रियोंको जहां ठहराया गया है ऐसे राजाओं के ( भूमिरूपी ) अन्तःपुरमें उदारता, दाक्षिण्य ( अनुकूल व्यवहार करना ), दया और इन्द्रिय संयम-ये चारों ( अन्तःपुरकी) रक्षामें कञ्चुकी (कन्चुकी तुल्य ) हैं / [ जिस प्रकार अन्तःपुरस्थ स्त्रियोंकी रक्षा कञ्चुकी करता है, उसी प्रकार कीर्तिरूपिणी स्त्रीकी रक्षा उदारता आदि चारों करते हैं / इनके बिना कोतकिी रक्षा नहीं हो सकती, इसी कारण चक्रवर्ती होकर भी राजा भीमने अपनेसे अवर ( हीन ) राजाओं का भी उक्त प्रकार ( 10 / 27 ) से सत्कार किया // 28 // अभ्यागतैः कुण्डिनवासवस्य परोक्षवृत्तेष्वपि तेषु तेषु / जिशासितस्वेप्सितलाभलिङ्गं स्वल्पोऽपि नावापि नृपैर्विशेषः।।२९।। अभ्यागतैरिति / अभ्यागतैर्नृपैः कुण्डिनवासवस्य कुण्डिनेन्द्रस्य भीमस्य सम्बइन्धिषु परोक्षवृत्तेषु गूढनिष्पन्नेष्वपि अपिना प्रत्यक्षवृत्तानां परिग्रहः, तेषु तेषूपचारेषु जिज्ञासितस्य ज्ञातुमिष्टस्य प्रयत्नान्वेषणीयस्य इत्यर्थः / जानातेः सन्नन्तात् कर्मणि क्तः / स्वेप्सितलाभस्य भैमीलाभस्य लिङ्गं चिह्नं गमकभूतः इति भावः। स्वल्पोऽपि विशेष उपचारतारतम्यं नावापि न लब्धः, यस्मिन् नृपे उपचारविशेषः परिलक्ष्येत तस्मै एव भैमी दास्यतीति हेतोः महानुपचारविशेषः कस्य क्रियते इति परिज्ञाने. च्छायां नृपैः कुत्रापि तद्विशेषो नावगतः. भीमेन सर्वेषां राज्ञां तुल्य एव समादरः कृतः, तत एव सर्वेऽप्यमंसत यत् भैमीलाभो ममैव भविष्यतीति भावः // 29 // आये हुए राजाओंने कुण्डिनेश्वर के उन-उन परोक्ष (प्रिय भाषण आदि)