________________ दशमः सर्गः। 565 तेषां तथा' लन्धुमनीश्वराणां श्रियं निजास्येन नलाननस्य / नालं तरीतुं पुनरुक्तिदोषं बर्हिर्मुखानामनलाननत्वम् // 21 // तेषामिति / तथा तेन प्रकारेण निजास्येन प्रयोज्येन नलाननस्य श्रियं लब्धं लम्भयितुमिति णिजों ग्राह्यः। यद्वा निजास्येन साधनेन तां श्रियं लब्धं प्राप्तमनीश्वराणामसमर्थानां बहिर्मुखानामग्निवक्त्राणाम्, अग्निमुखा वैदेवाः'इति श्रुतेः। बर्हि मुखाः ऋतुभुजः', 'बहिश्शुष्मा कृष्णवर्मा' इति चामरः / तेषामिन्द्रादीनां सम्बन्धि, अनलाननत्वं वह्निमुखत्वम्, अथ च नलस्याननमिव आननं येषां ते नलानना इत्युपमानपूर्वपदो बहुव्रीहिः / ते न भवन्तीत्यनलाननाः तेषां भावः इत्यनलाननत्वं नलाननतुल्याननराहित्यं, पुनरुक्तिदोषम् 'अग्निमुखा वै देवाः' इति श्रुत्या तेषां वह्निमुखत्वे पूर्व सिद्धेऽपि पुनर्वह्रिमुखत्वसम्पादन मिति पुनरुक्ति,ः अथ च पूर्व नलरूपाप्राप्त्या नलाननतुल्याननराहित्ये सिद्धेऽपि पुनरलीकनलीभूत्वा चन्द्रादिनाऽपि नलसदृशाननत्वाप्राप्त्या अनलाननत्वमिति पुनरुक्तिरित्येतादृशपुनरुक्तिदोषमित्यर्थः, तरीततु परिहत्तु', नालं न समर्थः, न तु नलाननत्वसम्भावनापीत्यर्थः। द्वयोरप्यनलाननत्वयोर्भेदेऽपि श्लिष्टैकपदोपादानमहिम्नैकत्वाभिमानात्पौनरुक्त्यव्यपदेशः। अत्र नलाननश्रीलिप्सूनां तेषां न केवलं तदलाभः प्रत्युत दुस्तरतरपुनरुक्तिदोषरूपा. नर्थोत्पत्तिश्चेति द्वितीयो विषमालङ्कारभेदः / 'यत्रानर्थस्य वा भवेदिति लक्षणात् // उस प्रकार ( नलके समान अपना मुख बनानेसे / पाठा०-तब अर्थात् नलके समान अपना मुख बनाते समय ) नलके मुखकी शोभाको अपने मुखसे प्राप्त कराने ( या करने ) के लिये असमर्थ उन अग्निमुख अर्थात् देवों का अनलाननत्व (अग्निमुखत्व, पक्षा-नलभिनमुखत्व ) पुनरुक्ति दोषको दूर करने के लिये समर्थ नहीं हुआ। [ देव पहले अनलमुख (अग्निमुख ) ( पक्षा०-नलमिन्नमुख ) थे, वे अपना मुख नलके समान सुन्दर बनानेकी चेष्टा करने पर भी अनलानन ( अग्निमुख, पक्षा-नलासदृशमुख ) ही रह गये अर्थात् अन. लाननत्वको छोड़ने के लिये बहुत प्रयत्न करनेपर भी वे देव नलाननत्वको प्राप्त नहीं कर सके; किन्तु अनलाननत्वरूप पुनरुक्ति से युक्त ही रहे / अन्य भी कोई अपण्डित व्यक्ति पुनरुक्ति दोषको दूर करने में जैसे समर्थ नहीं होता है, वैसे वे देव भी बहुत चेष्टा करनेपर भी अनलाननत्वको नहीं दूर कर सके ] // 21 // प्रियावियोगकथितात् किमैलाच्चन्द्राद्गृहीतैर्ग्रहपीडिताते / ध्माताद्भवेन स्मरतोऽपि सारैः स्वल्पयन्ति स्म नलानुकल्पम् // 22 // प्रियेति / ते देवाः प्रियावियोगेनोर्वशीविरहामिना क्वथितात् दग्धादैलादिलात्मजात्पुरूरवसः कर्परादेरिवेति भावः। तथा ग्रहपीडितादाहुनिष्पीडिताञ्चन्द्राच्च यंत्रनिष्पीडितात्तिलसर्षपादेरिवेति भावः। भवेन हरेण ध्मातात् स्मरतोऽपि कामाच्च 1. 'तदा' इति पाठान्तरम् / 2. -तादिवैला-' इति पाठान्तरम् /