________________ दशमः सर्गः रथैरथायुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः। स्वयंवरं शम्बरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः // 1 // अथ स्वयंवरवृत्तान्तं वर्णयति-रथैरित्यादि। अथ नलप्रयाणानन्तरं कुलजाः कुलीनाः शस्त्रेषु शस्त्रविद्यासु शास्त्रेषु त्रय्यादिषु च दृष्टं पारं यैस्ते दृष्टपाराः पार• दृश्वानः शम्बरवैरिणः कामस्य, यः कायव्यूहः शम्बरासुरजयार्थ मायया गृहीतो यः शरीरसमूहः, तस्य श्रीरिव श्रीः शोभा येषां ते कन्दर्पकल्पा इत्यर्थः। श्रिया सम्पदा जितो यक्षराजः कुबेरः यैस्ते कुमारा राजकुमाराः 'कन्या वरयते रूपमित्यायुक्तसमग्रगुणसम्पन्ना इत्यर्थः / रथैः साधनैः स्वयं वियतेऽस्मिन्निति स्वयंवरस्तम् / 'ऋदोरप' / स्वयंवरभुवं, तदा आयुः आयाताः। आङ पूर्वाद्यातेर्लङि 'लङः शाकटायनस्यैवेति' वैकल्पिको झेर्जुसादेशः। अत्र कायव्यूह. श्रिय इति निदर्शना, श्रीजितयक्षराजाश्च व्यतिरेकः इत्यलङ्कारयोः संसृष्टिः / अस्मिन् सगे उपेन्द्रवजेन्द्रवज्रातदुपजातयश्च वृत्तानि // 1 // ___ इसके बाद (धनुष आदि ) शस्त्र तथा ( वेद आदि ) शास्त्रविद्यामें पारङ्गत, कामदेवकी शरीरशोभाके समान शोभावाले, सम्पत्तिसे कुबेर को जीतनेवाले श्रेष्ठकुलोत्पन्न राजकुमार रथोंसे स्वयंवर स्थानको आये। [ 'कन्या वर के सौन्दर्य, माता सम्पत्ति, पिता विद्या, बान्धवजन श्रेष्ठ कुल चाहते हैं। इस' नीति के अनुसार स्वयंवरमें आये हुए राजकुमारोंमें सभी उक्त गुण रहनेसे तथा हाथी घोड़ा आदि वाहनोंको छोड़कर रथों के द्वारा आनेसे . उनकी विवाह-योग्यता सूचित होती है। शास्त्रकी अपेक्षा शस्त्रकी ही क्षत्रियों के लिये प्रमुखता व्यक्त करने के लिये यहां शस्त्रविद्याको पहले तथा शास्त्रविद्याको बादमें कहा गया है ] // 1 // नाभूदभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः। नास्थादपन्था धरणेः कणोऽपि बजेषु राज्ञां युगपव्रजत्सु // 2 // नेति / कुलजः कुलीनः, कोऽपीति शेषः / कुमारः स्मरसायकानामभूमिरविषयो नाभूत् तथा अगन्ता स्वयंवराप्रयाता च नाभूत् / किञ्च राज्ञां व्रजेषु युगपद्वजत्सु सत्सु धरणेः कणोऽपि भूलेशोऽप्यपन्था अपथं मार्गशून्य इत्यर्थः 'पथो विभाषा' इति विकल्पात् समासान्ताभावः / नास्थात् न स्थितः, 'गातिस्थेत्यादिना सिचो लुक / अत्र राज्ञां कात्स्येन स्मरेषुविषयवस्वयंवरगन्तृत्वाभ्यां सकलभूमेः पथित्वेन चासम्बन्धेऽपि सम्बन्धोक्तरतिशयोक्तिभेदः // 2 // 1. तदुक्तम्-'कन्या वरयते रूपं माता वित्तं पिता श्रुतम् // बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः // ' इति / 35 नै०