________________ नवमः सर्गः। 551 समस्यया समष्टया अनया भैम्या पदे पदे वचने स्थाने स्थाने अन्तर्गता आपाऽस्यैत्यन्तरीपमन्तस्तटं 'द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः / "शक्पू" इत्यादिना समासान्तोऽप्रत्ययः। "द्वयन्तरुपसर्गेभ्योऽप ई"दितीकारः। मौनमयं मौनरूपमन्तरीपं यस्याः सा मौनान्तरीपोदतेत्यर्थः। सर्वधन्वीतिवदिन्नन्तो बहुब्रीहिः, "अटकुप्वाङि" त्यादिना णत्वम् / इतीयं उक्तरूपा सारपसारस्य मधुसा. रस्य सारणी स्वल्पनदी / 'सारणी स्वल्पसरित्' इति विश्वः / प्रवर्तिता चित्रगतस्य तवाग्रे एवं मधुवर्षिणी वागुक्तेत्यर्थः / अत्र विषयस्य वाचोऽनुपादानेन विषयिण्याः सारघसारण्या एवोपनिबन्धात्तयोर्भेदेऽप्यभेदोक्तेश्वातिशयोक्तिभेदः // 155 // चित्रगत भी तुम्हें देखकर कामदेव तथा लज्जाके संक्षिप्त मिश्रणसे युक्त ( यह मेरी सखी दमयन्ती कामके वशीभूत होकर बोलना चाहती है, किन्तु लज्जावश नहीं बोलती) पद-पद ( बात-बात, पक्षा०-स्थान-स्थान ) में अर्थात् प्रत्येक बात (पक्षा-स्थान) में मौनमय अन्तरीप ( टापू-जलवेष्टित शुष्क स्थान-विशेष ) वाली यह दमयन्ती मधुके सारभूत पदार्थकी नदी (पाठा०-............"पदार्थको बहानेवाली ) हो जाती है। [ जिस प्रकार नदी टापुओंमें स्थान-स्थानपर रुक-रुककर बहती है, उसी प्रकार यह दम. यन्ती आपको चित्रमें भी देखकर काम एवं लज्जाके वशीभूत होकर बात-बातमें सरस मधुधारावाली नदीके तुल्य हो जाती हैं / अतएव जब यह चित्रमें भी आपको देखकर कामवशीभूत हो जाती है तो प्रत्यक्ष आपको देखनेपर अपने ( नल ) में इस दमयन्तीका अनुराग न होनेकी आशङ्का करना सर्वथा अनुचित है ] // 155 / / चण्डालस्ते विषमविशियः स्पृश्यते दृश्यते न ख्यातोऽनङ्गस्त्वयि निजभिया किन्नु कृत्ताङ्गुलीकः / कृत्वा मित्रं मधुमधिवनस्थानमन्तश्चरित्वा सख्याः प्राणान् हरति हरितस्त्वद्यशस्तज्जुषन्ताम् // 156 / / चण्डाल इति। हे नल ! विषमविशिखः कामस्ते तव सम्बन्धी चण्डालः 'वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञये ति स्मरणात् / माङमारणार्थमेव त्वया भृतः कोऽपि चण्डाल इत्यर्थः / अत एव न दृश्यते न स्पृश्यते च एकत्रानङ्गत्वादन्यत्र शास्त्रनिषेधाच्छेति भावः / किं च निजभिया स्वीयापराधदण्डभयेन त्वयि विषये त्वामुद्दिश्य कृत्ताङ्गुलीकः / अपराधेऽपि त्राणार्थ छिन्नाङ्गुलीकः। “नद्यतश्च” इति कष / “पद्यमङ्गुलिविच्छेद उरोविन्यस्यमतरम् / तशामकरणं चेति दास्यमेतच्चतुष्टय" मिति दासचिह्नत्वादिति भावः / अत एवाङ्गुलिविहीनत्वादनङ्गः ख्यातः किं नु ? अतः किमत आह-मधुं वसन्तमपि मित्रं कृत्वा सहायश्च कञ्चन सम्पाद्येत्यर्थः। अन्तरन्तःकरणमेव अधिवनस्थानमरण्यदेशं चरित्वा भ्रान्त्वा सख्याः स्वसख्या भैग्याः प्राणान् हरति तत्स्त्रीजन्यं त्वद्यशो दुर्यश इत्यर्थः। हरितो दिशो जुषन्तां 34 // नै०