________________ 427 अष्टमः सर्गः। (आप) हठसे शोभाका हरण करनेसे सौन्दर्यकीर्तिसे कैलासको जीतनेवाले पुरूरवाको लज्जासे नतमस्तक करते हैं, हठसे..."जीतनेवाले अश्विनीकुमारोंको अश्रुयुक्त कर देते अर्थात् रुला देते हैं और हठसे जीतने वाले कामदेवको सौन्दर्याभिमानसे हीन कर देते हैं / / 34 // अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः 'पुलाकाः / उड्डीय युक्तं पतिताः सवन्तीवेशन्तपूरं परितः प्लवन्ते // 35 // . अवैमीति / वलक्षा धवलाः हंसावलयः तव कान्तिकीर्तेः सौन्दयंकीर्तेः चपला: चलिताः पुलाकास्तुच्छधान्यानीत्यवैमि जानामीत्युत्प्रेक्षा। 'स्यात्पुलाकस्तुन्छधान्ये' 'वलक्षो धवलोऽर्जुनः' इति चामरः / अत एवोडीयोत्पत्य पतिताः सवन्तीनां निम्नगानां वेशन्तानां पल्वलानां च परं प्रवाहं परितः समन्ततः। “अभितः परितः" इत्यादिना द्वितीया। प्लवन्ते इति युक्तं पुलाकानां जलोपरि प्लवनमुचितमेवेत्यर्थः॥ (मैं ) श्वेत हंस-समूहको आपकी कान्तिकीतिका चन्चल पुआल ( पाठा०-बलाका) मानती हूँ, ( इसी कारण ) उड़कर पुनः गिरे हुए वे नदी तथा छोटे 2 गोंके ( जल) प्रवाहके चारो तरफ तैरते हैं / [ जिस प्रकार धान्यका निःसार भाग पुआल या पुआल की भुस्सी ( पुअरसी) उड़कर गिरनेपर नदियों तथा गढ़ोंके पानी पर तैरती रहती है, उसी प्रकार नदियों तथा छोटे जलाशयोंके जल के सब ओर रहनेवाले श्वेत हंस-समूहको भी मैं आपको कान्तिकीतिको पुआल या पुअरसी समझती हूँ, श्वेततम कान्तिकीर्तिके पुआलका श्वेत होना उचित है / आपको कान्तिकीर्ति हंस-समूहसे भी अतिशय स्वच्छ तथा गुणवती है ] // 35 // भवत्पदाङ्गुष्ठमपि श्रिता श्रीधं वं न लब्धा कुसुमायुधेन / जेतुस्तमेतत् खलु चिह्नमस्मिन्नर्धन्दुरास्ते नखवेषधारि // 36 // भवदिति / कुसुमायुधेन कामेन भवतः पदाङ्गुष्ठं श्रिता श्रीरपि न लब्धा न प्राप्ता ध्रुवम् ? भवच्छ्रिता श्रीस्तु दूरापास्तेति भावः। तथा हि-तं कामं जेतुः स्मरहरस्य तृन्नन्तत्वात् “न लोक" इत्यादिना षष्ठीप्रतिषेधः / तज्जेतुरिति समासपाठे तृजन्तेन षष्ठीसमासः साधुश्चायमेव पाठः / तृन्नर्थस्य ताच्छील्यस्यानुपयोगात् रतीशजेतुरिति देशान्तरपाठस्त्वयुक्त एव / प्रकृतार्थस्य सर्वनामोपादेयस्य स्वशब्दोपादाने पौनरुक्तयदोषादिति / हस्तेन निर्दिशन्त्याह-एतदर्धेन्दुरूपं चिह्नमस्मिन्नङ्गुष्ठे नखकैतवेनास्ते खल्वित्यपह्नवभेदः / अर्धेन्दुचिह्नधारणादयमपि कामजेता। यद्वा तचिह्नधारणात् तस्यापि स्मरस्य जेतेत्युभयथापि कथमेतच्छ्रीलाभः कामदेवस्येति भावः // 36 // 1. "बलाकाः" इति पाठान्तरम् / 2. “तज्जेतुरेतत्" इति “रतीशजेतुः” इति च पाठान्तरे / 3. “नखकैतवेन" इति पाठान्तरम् /