________________ 266 नैषधमहाकाव्यम् / मनोशादित्वाद् वुम / तस्य विशेषेषु तत्तदवयवेषु / 'विशेषोऽवयवे व्यक्त' इत्युत्पलमालायाम् / निवेशस्संस्थानेर्लिङ्गैः सः श्रुतपूर्वो नल एष एव किमिति हस्त. निर्देशः / इतीदं वाक्यं मन्दमन्दं मन्दप्रकारं, 'प्रकारे गुणवचनस्य' इति द्विर्भावः / इतरेतरमूचुः॥६६॥ (इन्द्र आदि चारों ) देव पहले ( लोगोंसे ) सुने गये (और इस समय ) आपसमें मिलते-जुलते हुए सुन्दर रूपकी अधिकता होनेसे वह नल यही है क्या ?' ऐसा आपस में धीरे धीरे करने लगे // 66 // तेषु तद्विधवधूवरणाहं भूषणं स समयः स रथाध्वा / तस्य कुण्डिनपुरं प्रतिसर्पन भूपतेर्व्यवसितानि शशंसुः / / 67 / / तेविति / तस्य भूपतेनलस्य, सा प्रसिद्धा विधा प्रकारः सौन्दर्याचसाधारण. धर्मो यस्यास्तस्यां वध्या बरणे अहमुचितं भूषणं, स समयः स्वयंवरकाल, कुण्डि. नपुरं प्रतिसन् , तदभिमुखः स रथावा च व्यवसितानि नळोद्योगान् तेषु तान. चिकृत्य शशंसुः तेभ्यः शशंसुरित्यर्थः / आधारस्वविवक्षायां सप्तमी / एतैर्लिङ्गैरेतस्य स्वयंवरयात्रेयमिति निधिक्युरित्यर्थः // 17 // उस प्रकारकी ( सर्वलोकप्रसिद्ध ) वधूको वरण करनेके योग्य भूषण, वह ( स्वयंवर. का) समय और कुण्डिनपुरको जानेवाले उस नलके रथका मार्ग, उस राजा नलके प्रयत्नोंको देवताओंसे बता दिया / [ नलके भूधण, स्वयंवरका समय तथा उधर जाते हुए उनके रथको देखकर देवताओंने समझ लिया कि नल स्वयंवर में हो जा रहे हैं ] // 6 // धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः। प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतदचिन्ति / / 68 // धर्मति / जगतः प्राणतां प्राणस्वं जगजीवनस्वं, सप्रियतां वा / शितममं नलं, प्रायासाच, हृष्टाः जगत्प्राणभूतपुरुशदर्शनारसन्तुष्टाः, चलास्तवावण्यदर्शनानेम्यां श्लथानुरागाः, विस्तृततापा रागशैथिल्यादेव विस्तृतविरहतापाश्च तैस्तथोक्तैस्तैः प्रतधर्मराजसलिलेशहुताशैः चेतसा, निभृतं निगूढम् / एतदनन्तरश्लोकत्रये वयमाणमचिन्ति चिन्तितम् / अत्र यमो हृष्टो वरुणश्चलो वहिर्विस्तृततापः, क्रमात्तत्प्रति. पावनपरश्योत्तरश्लोकत्रयमिति कैश्चिद्' व्याख्यातम् / तदयुक्तम् / न ह्येतेषामेते धर्माः प्रतिनियताः। किंतु, त्रयाणामेकाभिप्रायेणाप्येते धर्मास्साधारणा, अत एवोत्तरश्लोक त्रयमपि सर्वविषयम् / अत एवान्तरश्लोके 'ना' इति बहुवचनोपादानम् / यदपि तद. नन्तररलोकदये एकवचनोपादानम्, तदपि प्रत्येकाभिप्रायादविरुद्धम् / किञ्च, इत्य. 1. 'प्रकाश'व्याख्याकारै'नारायणरित्यवधेयम् /