SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 188 नैषधमहाकाव्यम् / अथ द्वाभ्यां नलतपःसाफल्यमाह-अहो इत्यादिना। नलस्यायं नलीया, 'वा नामधेयस्येति वृद्धसंज्ञायां वृद्धाच्छः / अत एव कल्पतरुः अभिनवः प्रसिद्ध कल्पतर विलक्षण इत्यर्थः / अत एव अहो इत्याश्चर्य वैलक्षण्यमेवाह-वदित्यादि। अत्रापि यच्छब्दो द्रष्टव्यः यः कल्पतरुः तव पाणिजाग्रैः कररुहागैनित्यं स्फुरन्ती अकुरश्रीर्यस्य सः अङ्कुरवानित्यर्थः, यस्य त्वम॑युगमेव द्वयोः पत्रयोः समाहारो द्विपत्री प्रथमोत्पन्नपत्रद्वयं खलु, तवाधरो यत्कलम्बो यस्य नालिका किसलयकाण्ड इत्यर्थः, 'अस्य तु नालिका' कलम्वश्च कडम्बश्चे'त्यमरः ? रज्यति स्वयमेव रक्तो भवति, 'कुषिरजोः प्राचां श्यन् परस्मैपदञ्चेति कर्मकर्तरि रूपम् / य इति / यस्ते तव कराभ्यां पल्लवितः सातपल्लवः, यस्तव स्मितेन कोरकितः सनातकोरकः सन् आस्ते, यस्तवाङ्गानां म्रदिग्ना मार्दवेन पुप्पितः सञ्जातपुष्पः, यस्तवैव स्तनश्रिया स्तनसौन्दर्यण फलितः सञ्जातफलः / सर्वत्र तारकादित्वादितच प्रत्ययः / अत्र श्लोकद्वयेन तपसि दमयन्तीनखादिषु च कल्पतरुतावयवत्वरूपणात्सावयवरूपकं तथा अवयविनि कल्पतरोरवयवानां नखाङ्करादीनाञ्च मिथः कार्यकारणभूतानां भिन्नदेशत्वादसङ्गत्याश्रितमिति सङ्करः, 'कार्यकारणयोभिन्न देशत्वे स्यादसङ्गतिरिति लक्षणात्।।१२०-१२॥ __ नल-सम्बन्धी तपोरूप कल्पवृक्ष आश्चर्यकारक है, जिसका अङ्कुर तुम्हारे हाथका नखाग्र है. उसके बाद होनेवाले दो पत्ते तुम्हारे दोनों भ्र है, जिसका डण्ठल तुम्हारा लाल ओष्ठ है, जो तुम्हारे दोनों हाथोंसे पल्लवित हुआ है अर्थात् जिसके पल्लवद्वय तुम्हारे हाथ हैं, जो तुम्हारे स्मितसे कोरकित हुआ है अर्थात् तुम्हारा स्मित जिसका कोरक ( पुष्पकलिका ) है, जो तुम्हारे शरीर की कोमलतासे पुष्पित हुआ है अर्थात् जिसका फूल तुम्हारे शरीरकी कोमलता है, और तुम्हारे स्तनोंकी शोभासे हो फलित ( फलयुक्त ) हुआ हैं अर्थात् तुम्हारे स्तन ही जिसके फल है। [ वृक्षमें क्रमशः अङ्कर, दो पत्ते, उनके बीचमें डण्ठल, पल्लव, पुष्पकोरक. पुष्प और फल लगते है। ये सब तुम्हारे ही शरीरमें विद्यमान है, अत एव नलने कल्पतरु तुल्य तुमको तपस्यासे प्राप्त किया है ] // 120-121 / / / 'कंसीकृतासीत्खलु मण्डलीन्दोः ससक्तरश्मिप्रकरा स्मरेण / तला च नाराचलता निजैव मिथोऽनुरागस्य समीकृतौ वाम ||122|| किन्च समानुरागत्वाच युवयोःसमागमः श्लाघ्य इत्याशयेनाह-कंसीति / स्मरेण का वां युवयोमिथोऽनुरागस्य अन्योन्यरागस्य, यस्तव तस्मिन् , यश्च तस्य त्वयि, तयोरनुरागयोरित्यर्थः / समीकृतौ समीकरगे निमित्ते तदर्थमित्यर्थः / संसक्तः संयोजितः रश्मीनामंशूनां सूत्राणाश्च प्रकरः समूहो यस्यां सा 'किरणप्रग्रही रश्मी' इत्यमरः / इन्दोर्मण्डली बिम्बं कसीकृता आसीत् / 'कंसोऽस्त्री लोहभाजनमिति शाब्दिकमण्डने / मण्डले निजा नाराचलता बाणवल्ली सैव तुला तुलादण्डीकृतेति 1. कंसी-इति पाठान्तरम् /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy