________________ 156 नैषधमहाकाव्यम् / किञ्जित्तिरश्चीनविलोलमौलिविचिन्त्य वाचं मनसा मुहूर्तम् | पतत्रिणं सा पृथिवीन्द्रपुत्री जगाद वक्त्रेण तृणीकृतेन्दुः / / 54 / / किञ्चिदिति / किञ्चित्तिरश्वीना स्वभावादीषत्साचीभूता विलोला आयासाद्विलुलिता मौलिः केशबन्धो यस्याः सा। 'मौलयः संयताः कचा' इत्यमरः। वक्त्रेण तृणीकृतेन्दुरधाकृतचन्द्रा सा पृथिवीन्द्रपुत्री भैमी मुहूर्तमल्पकालं मनसा वाच्यं वचनीयं विचिन्त्य पर्यालोच्य पतत्रिणं जगाद // 54 // (विचारते समय ) कुच टेढ़ा एवं चञ्चल मस्तक वाली तथा ( स्वभावतः एवं हंसकथनसे नल-प्राप्तिकी आशा होनेसे प्रसन्नताके कारण ) मुखसे चन्द्रमाको तृणतुल्य ( अतिशय तुच्छ ) की हुई राजकुमारी दमयन्ती थोड़ी देर कहने योग्य बातको विचार कर बोली // 54 / / धिक्चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या / समीरसङ्गादिव नीरभङ्गथा मया तटस्थस्त्वमुपद्रतोऽसि / / 55 / / धिगिति / चापले चपलकर्मणि, युवादित्वादण्, 'यत्सस्य भावः वसिमा शिशुत्वम् पृथ्वादित्वादिमनिच / तेन निमित्तेन वत्सलत्वं वात्सल्यं बाल्यत्वप्रयुक्तचापलमित्यर्थः / तद्धिक / कुतः ? यस्य चापलवात्सल्यस्य प्रेरणादुत्तरलीभवन्त्या चपलायमानया समीरसङ्गाद्वाताहतेरुत्तरलीभवन्त्या नीरभङ्गया जलवीच्येव तटस्थः उदासीनः कूलं गतश्च स्वमुपद्रुतः पीडितोऽसि / अधर्महेतुत्वाद् बालचापलं सोढव्यमिति भावः // 55 // चपलता करनेके विषय में बचपनके प्रेमको धिक्कार है, जिसकी प्रेरणासे अत्यन्त चञ्चल होती हुई मैंने, वायुसे प्रेरित जल-प्रवाहसे तटस्थ व्यक्तिके समान (तुम्हें पकड़ने के लिये पीछे-पीछे चलकर ) तटस्थ ( उदासीन, मुझसे सम्बन्ध-शून्य ) तुमको पीड़ित किया है। [ बचपनमें चञ्चलता करनेकी अधिक इच्छा रहती है, उसके कारण एक उदासीन व्यक्तिको मैंने पकड़ने के लिए पीछे-पीछे चलकर पीड़ित किया है, उस बाल-चपलताको धिक्कार है ] // 55 // आदर्शतां स्वच्छतया प्रयासि सतां स तावत्खलु दर्शनीयः / आगः पुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते / / 56 // आदर्शतामिति / स्वच्छतया नैर्मल्यगुणेन आदृश्यते पुरोगतवस्तुरूपमस्मिन्निति आदशों दर्पणस्तत्तांप्रयासि, कुतः यस्य स्वच्छस्य ते तव सम्बिन्धिनि सागसं सापराधां मां पुरस्कुर्वति पूजयति अग्रे कुर्वाणे च आत्मनि बुद्धौ स्वरूपेच, 'पुरस्कृतः पूजिते स्यादभियुक्तेऽग्रतः कृते'। 'आत्मा यत्नो प्रतिबुद्धिः स्वभावो ब्रह्मवर्मणीति चामरः / इदं मदीयमागोऽपराधःप्रतिबिम्बितं प्रतिफलितम् / पुरोवर्ति धर्माणामास्मनि संक्रमणादादर्शोऽसीत्यर्थः, ततः किमत आह-सः आदर्शः सतां साधूनां