________________ तृतीयः सर्गः आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसाऽवतीर्य / निवेशदेशाततधूत पक्षः पपात भूमावुपभैमि हंसः // 1 // आकुञ्चिताभ्यामिति / अथ मण्डलीकरणानन्तरं हंसः। आकुञ्चिताभ्यां पक्षतिभ्यां पक्षमूलाभ्यां नभोविभागादाकाशदेशात्तरसा वेगेनावतीर्य निवेशदेशे उपनिवेशस्थाने आततौ विस्तारितौ धूतौ कम्पितौ च पक्षौ येन सः तथा सन्नुपभैमि भैम्याः समीपे, सामीप्येऽव्ययीभावः, नपुंसकं, ह्रस्वत्वं च / भूमौ पपात / स्वभावोक्तिरलङ्कारः // 1 // इस ( मण्डलाकार चक्कर लगाने ) के बाद सङ्कचित दोनों पक्षोंसे आकाश से झट नीचे उतरकर बैठनेकी जगह फैलाये गये पडोंको कँपाता ( फड़फड़ाता ) हुआ वह हंस दमयन्तीके पास भूमिपर आ गया // 1 // आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार / द्रागन्यविन्यस्तदृशः स तस्याः संभ्रान्तमन्तःकरणश्चकार / / 2 // आकस्मिक इति / तदा पतनसमये पक्षपुटाहतायाः क्षितेः / अकस्माद्भव आकस्मिकः अदृष्टहेतुको निर्हेतुक इत्यर्थः / यः स्वनो ध्वनिरुच्चचार उत्थितः, स स्वनः अन्यविन्यस्तदृशः विषयान्तरनिविष्टदृष्टेस्तस्याः भैम्याः अन्तःकरणं द्राक झटिति सम्भ्रान्तं ससंभ्रमं चकार / अकाण्डेऽसम्भावितशब्दश्रबणाच्चमत्कृतचित्ताऽभूदि. त्यर्थः / स्वभावोक्तिः // 2 // __ दोनों पङ्खोंसे आहत पृथ्वीर. अकस्मात् जो शब्द हुआ, उसने दूसरी ओर देखती हुई दमयन्तीके अन्तःकरणको सभ्रान्त ( कुछ घबड़ाया हुआ तथा आश्चर्ययुक्त) कर दिया [हंसके नीचे उतरनेसे एकाएक उत्पन्न शब्दसे दूसरी ओर देखती हुई दमयन्ती कुछ घबड़ा गयी एवं आश्चर्यचकित हो गयी ] // 2 // नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि / प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् / / 3 / / नेत्राणीति / विदर्भाणां राजा वैदर्भः। तस्य सुतायाः भैम्याः सखीनां नेत्राणि विमुक्तास्तत्तद्विषयग्रहाः तत्तदर्थग्रहणानि अन्यत्र तत्तद्विषयासङ्गो यस्तानि सन्ति एकमेकचरम् अद्वितीयञ्च नोपाख्यायत इति निरुपाख्यमवाच्यं रूपमाकारः, स्वं स्वरूपं च यस्य तं पुरोवर्तिनं हंसं तत्पदार्थभूतञ्च यतव्रतानां योगिनां चेतांसि ब्रह्म परास्मानमिव प्रापुः, अत्यादरेणादाचरित्यर्थः॥३॥ ___ उन-उन (विभिन्न ) विषयोंको ग्रहण करने ( देखने ) वाले विदर्भराज-कुमारी ( दमयन्ती ) को सखियोंके नेत्र अनिर्वचनीय उस एक हंसको उस प्रकार प्राप्त हुए (देखने लगे ), जिस प्रकार योगियोंके चित्त अनिर्वचनीय रूपवाले एक ब्रह्मको प्राप्त होते हैं।