________________ नैषधमहाकाव्यम् / कथा-शिवभक्त बाणासुरकी शोणितपुर नामकी नगरी भी शिवजीके प्रसादसे अग्निपरिवेष्टित रहती थी, ऐसा पुराणोंमें उल्लेख मिलता है ] // 87 / / बहुकम्बुमाणवराट कागणनाटत्करककटोत्करः / हिमबालुकयाऽच्छ बालकः पटु दध्वान यदापणाणवः / / 88 / / बह्विति / बहवः कम्बवः शङ्खा मणयश्च यस्मिन् सः वराटिकागणनाय कपदिका. संख्यानाय अन्तिः तिर्यक् प्रचरन्तः कराः पाणय एव कर्कटोत्कराः कुलीरसंघाः यस्मिन् सः, हिम्बालुक्या कर्पूण अरबबालुकः स्वच्छसिकतः यस्याः पुरः आपणो विपणिरेवार्णवः पटु धीरं दध्वान ननाद, 'कपर्दो वराटिके ति हलायुधः। 'शङ्खः स्यात् कम्बुरस्त्रियामि'त्यमरः / 'सिताभ्रो हिमबालुका', स्यात्कुलीरः कर्कटक'इति चामरः // बहुत-से शङ्ख तथा मणियोंवाला, कौड़ियोंको गणनाके लिए चञ्चल हाथरूप केकड़ों वाला तथा कर्पूर-धूलिरूप श्वेत बालुओं वाला जिस ( कुण्डिनपुरी ) का बाजाररूपी समुद्र ( लोगोंके कोलाहलसे ) सर्वदा गरजता था // 88 // यदगारघटाकुटिमसदिन्दूपलतान्दलापया। मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया / / 8 / यदिति / यस्याः नगर्याः अगारघटासु गृहपतिषु अट्टानामहालिकानां कुट्टिमेषु निबद्धभूमिषु, 'कुट्टिमोऽस्त्री निबद्धा भूरि'त्यमरः / नवद्भिरिन्दुसम्पर्कात् स्यन्दमानरिन्दूपलैश्चन्द्रकान्तः हेतुभिः तुन्दिलाः प्रवृद्धा आपो यस्याः तया, तुन्दादिभ्य इलच 'ऋवपूरि'त्यादिना समासान्तः / अभ्रगङ्गया मन्दाकिन्या, 'मन्दाकिनी वियद्गङ्गे'त्यमरः / चन्द्रोदये चन्द्रोदये प्रतिचन्द्रोदयं वीप्सायामव्ययीभावः। पतिव्रतानामौ. चिती औचित्यं ब्राह्मणादित्वाद् 'गुणवचने'त्यादिना प्यञप्रत्ययः, षिद्गौरादिभ्यश्चेति ङीष् / स च 'मातारि षिच्चेति षित्वादेव सिद्ध मातामहशब्दस्य गौरादिपाठेना. नित्यत्वज्ञापनाद्वैकल्पिकः / अत एव वामनः-प्यञः पित्कार्य बहुलमिति स्त्रीनपुंसकयोर्भावक्रिययोः प्यञ् / क्वचिच्च बुन 'औचित्यमौचिती मंत्र्यं मैत्री वुञ् प्रागुदाहृतमि'त्यमरश्च / न मुमुचे न तत्यजे / भर्तुः समुद्रस्य चन्द्रोदये वृद्धिदर्शनात्तस्य अपि तथा वृद्धिरुचिता / 'आर्ते मुदिते हृष्टा प्रोषिते मलिना कृशा / मृते हि म्रियते या स्त्री सा स्त्री ज्ञेया पतिव्रता // ' इति स्मरणादिति भावः / अत्राभ्रगङ्गायाः यदगारेत्यादिना विशेषणार्थासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः, तथा च यदगाराणामतीन्दु. मण्डलमौनत्यं गम्यते तदुत्थापितां चेयमस्याः पातिव्रत्यधर्मापरित्यागोत्प्रेक्षति सङ्करः, सा च व्यञ्जकाप्रयोगाद् गम्या // 89 // प्रत्येक चन्द्रोदयमें जिस ( कुण्डिनपुरी) के भवन-समूहों के ऊपरी छतमें जड़े गये बहते हुए चन्द्रकान्त मणियोंसे पूर्ण जलवाली आकाशगङ्गाने अपने पतिव्रताधर्मके औचित्य को नहीं छोड़ा। [चन्द्रमाके उदय होनेपर हर्षसे समुद्र जल बढ़ जाता है, अत एव