________________ 320 कल्पलताविवेकें लङ्कारसंसृष्टिः इति / शब्दालङ्कारयोर्यमकानुप्रासयोः संसर्ग इत्यर्थः / रूपकादीनाम् इति / आदिग्रहणात् श्लेषोपमे / राजभुजङ्ग- इति / अप्सरःपक्षे नृपकामुकेति / कदलीपक्षे प्रधानविषधरेति च / पल्लववन्मृदुः इति / पल्लववन्मृदुः पल्लवैश्च मृदुरिति / रूपका दीनाम् इति / आदिग्रहणादुपमाश्लेषौ / मयूर इति / मयूनामश्वमुखानामूराः सोधमा 5 ईषत् शब्दाः कलध्वनयस्तैर्वाचालामपि सोद्यमानामुत्साहपराणां हि मयूनां ध्वनयोऽपि सोधमाः सोत्साहा उच्यन्त इति / अयं शब्दश्लेषः। स तडिल्लतामिति रूपकम् / महाटवीमिवेत्युपमा / चापानि इति / घनाः इति च धनुर्लक्षणैकार्थवाचकत्वेऽपि शक्कार्मुकप्रसिद्धकोदण्डलक्षणोऽनेकोऽत्रार्थ इति चापशब्द एव यद्यप्यर्थश्लेषो घनशब्देन चार्थभेदा च्छब्दभेदेऽपि समानप्रयत्नोच्चार्यतया जलधराऽनेकत्वलक्षणार्थद्वयवाचित्वे शब्दश्लेषस्तथा10 ऽप्यौद्भटमतानुसारेणोभयत्राऽप्यर्थश्लेषः प्रतिपत्तव्य इति [ // 75 // ] . झटिति इति / आमुखे तुल्योदय- इति अत्रार्थश्लेषोत्प्रेक्षारूपकाणामनुग्राह्यानुग्राहकभावसङ्करः / उभयसमान- इति / उभयस्य द्वयोर्बह्वीनां च प्रतिपादकत्वे तुल्यं यदनेकपदं तस्योपादानमित्यर्थः / अनुद्भटमतम् इति / उवटो ह्यलङ्कारोत्तरान्तरप्रतिभोत्पत्ति हेतुमेव श्लेषं प्रतिजानीते, तेन येन ध्वस्तमनोभवेनेत्यत्राऽपि तुल्ययोगिताप्रतिभया सङ्कर 15 एव स्यादिति श्लेषस्य निर्विषयत्वापत्तिस्तदवस्थैवेति / जयति इति सर्वोत्कर्षेण वर्तते // ___ इति कल्पल्लवशेषे कल्पलताविवेकेऽर्थालङ्कारनिर्णयो नाम चतुर्थः परिच्छेदः समाप्तः / इति समाप्तः कल्पलताविवेकाभिधानः कल्पपल्लवशेषः / कल्पपल्लवमात्रेण न ये कल्पलतां विदुः / कल्पपल्लवशेषोऽयं निर्मितस्तद्विदेऽपरः // 1 // अपर इति एकस्मिन् विवरणे कृतेऽपैरविवरणकरणं श्रोतृणामवबोधहेतुतया श्रेयस एवेत्यर्थः / पल्लवकलशविराजिनि कल्पलताविबुधमन्दिरे रचितः / शेषध्वजो विजयतां छेदपरु[?]र्ध्वनिपताकोऽयम् / / 25 संवत् 1205 श्रावणसुदि 14 शनौ / // मङ्गलं महाश्रीः // 20 1. पुनरिति // 2. पुनर्वि- // 3. अयं पाठः ग. पुस्तके नास्ति / अन्यत्र च अस्मिन्स्थाने प्रन्यानं 6500 एवमस्ति //