________________ 308 कल्पलताविवेके इत्यर्थः / तद्विषयः इति / आस्वादरूपप्रतीतिगोचरः तेन भट्टतोतेनापि सर्वमेतदभ्युपगम्यत एवेत्याशयः / न त्वेवम् इति / न त्वेकोऽन्यथा व्याचष्टेऽपरोऽन्यथेतरश्चान्यथेत्येवं रसतत्त्वमलब्धप्रतिष्ठं कथमास्तामिति निर्विण्णप्रायस्य जिज्ञासोः प्रश्नः / किं कुर्मः इति / निराम्नायं नाद्यागमरहस्यं न कश्चिद्वेत्तीति सजुगुप्समाचार्यस्योक्तिः- धिगनाग5-मित्वम् इति / तथा ह्यनागमज्ञो लोलटप्रभृतिः स्थाय्येव विभावानुभावादिभिरुपचितो रस इत्यादिना प्रकारेण किं न दूषयति / सर्वमप्यसङ्गतार्थ प्ररूपयतीत्यर्थः / यद्येवं कुत इह तेन्मतनिराकरणेन अन्यविहिततन्मतनिराकरणानुवादेन (?) चात्मनो दुर्जनत्वमाविष्क्रियते इत्याह- ऊोर्ध्वम् इति / शोधितानि इति / कुतस्तेष्ववकरप्राय यदासीत्तत् परिहृतमित्याह-पूर्व- इति / योजनाः व्याख्याः / मूल- इति / मूलभूतस्य 10 मुनिमतस्याम्नायागतस्य या प्रतिष्ठा स्थिरीकरणं सैव फलं प्रयोजनमिति / काव्यार्थान् इति / वागङ्गसत्त्वोपेतान् काव्यार्थान् भावयन्तीति भावा इति परिपूर्ण भाष्यवाच्यम् / अस्यार्थः -पदार्थवाच्यार्थी रसेष्वेव पर्यवस्यत इत्यसाधारण्यात् प्राधान्याच्च काव्यस्यार्था रसाः अर्थ्यन्ते प्राधान्येनेत्यर्थाः / नन्वर्थशब्दोऽभिधेयवाची। स्वशब्दानभिधेयत्वं हि रसादीनां दर्शितमेव / एवं काव्यार्था रसास्तान कुर्वते ये स्थायिव्यभिचा15 रिणस्ते भावाः / स्थायिव्यभिचारिकलापेनैव हि आस्वाद्योऽलौकिकोऽर्थो निर्वय॑ते / पूर्व हि स्थाय्यादिकमवगच्छति ततः सर्वसाधारणतया आस्वादयति तेन पूर्वावगमगोचरीभूतः सन् स्थाय्यादिरुत्तरभूमिकामागिन आस्वाद्यस्य रसस्य भावको निष्पादक उच्यते / केन भावयन्ति इति करणं दर्शयति / वागङ्ग- इति / वागादयस्तत्कर्मसु वर्तन्ते तेन वर्णनाद्यात्मना वाचिकेन सन्निवेशवलनादिना आङ्गिकेन अन्तर्बहिरात्मना सात्त्विकेन करण20 भूतेनोपेतान् सम्बद्धान् करणं हि कर्मणि कर्तरि च यद्यपि सम्बध्यते तथाऽपीह भाव्यस्य प्राधान्यात्तत्सम्बद्धं दर्शितमिति भावर्हि यः काव्यार्थी भाव्यते स एव रस इत्याह-- तद् इति / अर्थित्वादि इति / पुत्रार्थित्वादि / प्रतिपत्ति इति वाक्यार्थप्रतिपत्तिमात्रात् / इतिवृत्त इति / इतिवृत्तम् इतिकर्तव्यतेत्यर्थः / उमापि इति हरस्तु इति चामूभ्यां वाक्याभ्यां 25 परस्परमुमाहरयो रतिः प्रदर्शिता तत्प्रतीतिस्वरूपं च प्रथमवाक्यसमुत्पन्नभयप्रतीति स्वरूपप्रदर्शनेनैव चरितार्थमिति न निरूपितम् / त्रासकस्य इति मृगपोतकादेः / अपारमार्थिकत्वाद् इति / अत्र हेतुर्विशेषरूपत्वाभावादिति / व्याप्तिग्रह इव इति / यत्र यत्र धूमस्तत्र तत्राग्निरिति यत्र यत्र वा कम्पस्तत्र तत्र भयमिति व्याप्तिग्रहणकाले यथा विततं 1. भट्टनायक // 2 ज्ञापकज्ञाप्यरूपः सम्बन्धः // 3. रसस्य // 4. विशिष्ट ख. एव //