________________ 272 कल्पलताविवेके कारणेषु इति असाद्गुण्यमित्यस्याधेयस्यापेक्षया सप्तमी / कार्यविशेषस्य इति नियतस्य कस्यचित् कार्यस्येत्यर्थः / अर्थाद् इति वक्रभणित्यन्यथानुपपत्तिलक्षणसामर्थ्यात् / विशिष्यते इति अभावलक्षणेन धर्मेण भियत इत्यर्थः / विशेषाय इति विशेषः कारगसाद्गुण्ये कार्यानुत्पत्तिलक्षणः / अपाङ्गदृष्ट्या इति / हेतौ तृतीया / कचिदपि 5 इति / यत्र गुगादीनां वैकल्यं न दर्श्यते / तत्रापि विशेवायोक्तिविशेषोक्तिर्भवतीत्यर्थः / वैकल्यवद्र्व्य -इति / पूर्वं हि वैकन्यशब्दार्थोऽभावलक्षण उपदर्शितः / इह त्वपरिपूर्णयथोक्तधर्मतालक्षणः / द्रव्यस्य योग-इति / इहायोगहेतुकाविशेषदर्शनं योगनिमित्तविशेषस्यैवातिशयाधानार्थम् / अथवा विशेषापेक्षमविशेषस्याविशेषत्वं, स्वापेक्षया त्वविशेषोऽपि नैरर्थक्यलक्षणोविशेष10 रूप एवेति तदानीमपि विशेषोक्तिशब्दार्थो न दुरुपपादः / तया इति उर्वश्या / तेन इति विशेषेण / हेतुतः इति हेतोरलङ्कारात् / तत्र हि न विशेषायोक्तिः / इह इति अयं तयेत्युदाहरणे / न विशेषोक्तिः इति / तेन तदपेक्षया सङ्करोऽत्रेत्यर्थः / अस्याश्च विशेषोक्तेः इति / गुणादीनां वैकल्यदर्शने प्रत्येतव्येऽभिधेये च विशेषकारणे या विशेषोक्तिः सेदमा परामृश्यते / शक्तेर्वा हानिहेतुना इति सामर्थ्य विधाते कारणान्तरसद्भावेन वेत्यर्थः / 15 अकृत- इति / अत्रार्थात् हेतुविशेष्यः तेनाकृतात्मीयकार्यो व्याहतश्च यो हेतुः स्यात् सोऽहेतुनामालङ्कार इत्यर्थः / पीणतण- इति / अत्र जीवितं कर्तृ कण्ठं कर्मतापन्नं, दुःखेन व्युत्क्रान्तमिति सम्बन्धः / न प्रतिपद्येत इति / इदं तु स्पष्टम् / एकस्त्रिधा वससीति वाजिवारणेति स्वतन्त्रत्वे उदाहरणमिदं तेषु तथैव / ततः इति ततस्तस्मात्तेषूद्दिष्टेषु तथैव द्विस्त्रिी 20 बध्नीयादित्यर्थः / भणितिवैचित्र्य- इति भणितिवैचित्र्यमानं विरहय्येत्यर्थः / शब्द परिपाटौ इति पदात्मिकायाम् / तारतम्यम् इति / न्यासादुत्कृष्टः क्षेपः क्षेपाद्विप्रकीर्णत्वं तस्माच्च निरसनमिति / यद्यपि कालतो देशतश्च द्विधाऽर्थपरिपाटिः प्रतिज्ञाता, तथाऽपि क्रियातारतम्यप्रभृत्यपि तत्प्रयोजकं भवति / अर्थपरिपाटिः इति देशात्मिका क्रियात्मिका च / न्यग्भवति इति / शब्दपरिपाटया एवात्रोद्भूतत्वादित्यर्थः / स्वा इति सुष्टु 25 समन्ताच्चाहारासीति / हारलतावतंसविपुलवक्षसम् / असिलतावतंसस्थलांसभुजं च / पुंभावम् इति पुंस्त्वम् / अर्थानाम् इति / येयमभ्यर्थनाभङ्गिरिति सम्बन्धः / मुख्य अर्थपरिपाटिः इति अभ्यर्थनात्मिका / शब्दपरिपाटी इति वाक्यात्मिके / उपमानोपमेयभूते इति / गङ्गायमुनालङ्कृतौ प्रयागन्यग्रोधावुपमाने, हारलतासिलताविभूषितौ च