________________ 237 प्रबोधादवलम् इति। अत्र वाक्यसमासाश्रयप्रकारद्वये पूर्णत्वं चतुष्टयसद्भावात् / तथा हि- कुमुदकाननं विकसितं किञ्जल्कालीनषट्पदत्वविशिष्टमुपमेयम् / अखण्ड इन्दुः पूर्णेन्दुबिम्बमिति वोपमानम् / धवलत्वं साधारणो धर्मः / तुल्यशब्दः प्रतिमशब्दो वा उपमानोपमेयभावावगतिहेतुरिति / तद्गत इति / उपमानगतं यत् सादृश्यं प्रतीयते तत्परामर्शेनेत्यर्थः / तत्सम्बन्धित्व-इति / तच्छब्देन तुल्यपदपरामर्शः / अर्थाद् इति / साधा- 5 रणधर्मपर्यालोचनासामर्थ्यादुपमेयोपमानगतं यत्सादृश्यसम्बन्धित्वं तेन हेतुनोपमेयोपमानयोविषययोः प्रतिमशब्दस्यावगतिरिति / लुप्तापि इति / धवलत्वधर्मापेक्षयैव पूर्णेयमित्यर्थः / यद्यपि इति / नेत्रादिसदृशोत्पलादिकरणके भाने सामान्यरूपे उक्ते सामान्ये सर्वविशे. पाणामन्तर्भावादित्युक्तनयेन भानविशेषणभूताः करणगतदीर्घवादयो धर्मविशेषा उक्ता एवेति पूर्णोपमेयं वतिना चेति / अनेन तदभिधेयेऽत्यन्तं सूत्रमुट्टङ्कितं " तथैवेति धर्मवाचक- 10 विच्युतौ श्रौतत्वार्थत्वभेदेन" / साम्योपमान-इति / साम्यं साधारणो धर्मः / सूत्रे तद्वाचिनामिति तच्छब्दस्य प्रक्रान्तोपमापरामर्शित्वादुपमावाचिनामित्युक्तं यदा इति / मेतत् / उदाहायम् इति / सूत्रसूचितेऽपि प्रभेदे सूत्रकृता कथञ्चिन्नोदाहरणं प्रदर्शितमित्यस्माभिरूनं पूरणीयमित्युपदेशोऽयमवसरे प्रदत्त इति लक्ष्यव्युत्क्रमो न चोद्यः / अन्ये तु इति / 15 वाक्यसमासगतप्रकारद्वयद्वयलक्षणाः / उपमाने इति / एकत्रेयर्थः / प्रतीतम् इति सिद्धम् / लावण्यादि इति लावण्यगुणादि / उपमेये इति अन्यत्रार्थे / दिने दिने इति / ज्योत्स्नागर्भान् कलाविशेषानिव लावण्यमयान् विशेषान् पुपोषेति सम्बन्धः / प्रातीतिकम् इति अवास्तवम् / उक्तम् इति आक्षिप्तम् / उपसर्जनोपमानः समासः इति / नवविकसितकमले इव करौ यस्या 20 इत्येवंरूपो बहुव्रीहिरक्रेत्यर्थः / यद्यपि शाब्देन न्यायेन द्वयमप्यप्रधानमन्यपदार्थप्रधानत्वाद् बहुव्रीहेस्तथापि ये एव पदे अन्यस्य पदस्यार्थे समस्येते ते एवालङ्कारकल्पनाभूमिरिति तत्रैव प्रधानाप्रधानत्वचिन्तायां वस्तुवृत्त्या उपमानमप्रधानमुपकारकत्वादुपमेयं तु प्रधानमुपकार्यत्वादित्यलङ्काराश्रयाश्रयणेनोपमानस्यैवोपसर्जनभावादित्येवमुक्तम् / यदा तु कमलशब्दं स्वाभिधेयच्छायातिशये गुणमात्रे विवक्षित्वा नवविकसितकमले करौ यस्या 25 इति बहुव्रीहिर्विधीयते तदा रूपकत्वं प्रसजति / शाब्देनैव च नयेन कमलत्वरूपेणोदितः करार्थोऽप्रधानभूत एव प्रतीयते इत्यलङ्कारभूमिकाश्रयणेनोपमेयस्यैव तत्रोपसर्जनतेत्यस्याभिप्रायः / परमार्थतस्तु एवंविधे विषये यत्रैकतरपरिग्रहे तदितरपरिहारे वा साधकबाधक