________________ अर्थालङ्कारनिर्णयः दूर्वाकाण्डमिव इति समासे श्रौतम् / तन्वी श्यामा इति वाक्ये श्रौतम् / अत्राऽपि इति / न केवलं पुत्रेण सदृशः स्थूल इत्यादौ सदृशादिपदप्रयोगे पुत्रादीनां स्थूलत्वादिभिरन्वयो दुर्घटो यावताऽत्रापि इवशब्दप्रयोगेऽपीत्यर्थः / वस्तुमात्र-इति श्यामगुणयुक्ततन्वीमात्रवर्णने / उपात्तम् इति कर्तृ / अन्यार्थ-इति तन्वी निमित्तम् / संस्पर्शाद इति आर्थ्या वृत्त्या सम्बन्धो न तु मुख्ययेति संस्पर्शार्थः / तस्य इति दूर्वाकाण्डस्य / 5 सामानाधिकरण्यम् इति यथा दूर्वाकाण्डं श्याममित्येवंरूपम् / अन्यरूपे इति तन्वीलिङ्गिनि / तादृशीम् इति / श्रवणसमनन्तरमेव व्यवधानशून्या यत्रार्थप्रतिपत्तिस्तदेव काव्यं चमत्कारकारि / अत्र च यथा दूर्वाकाण्डं श्याममिति विभक्तिविपरिणामात् द्वितीयवाक्यकल्पनेन विनिताऽर्थप्रतीतिः काव्यस्य यादृशी न चमत्कारावहा तादृशीमित्यर्थः / पूर्वस्मिन् 10 इति इवोदाहरणवाक्ये / उत्तरस्मिन् इति यथोदाहरणवाक्ये / एवमेव इति अप्रयोजकत्वेऽपि पुरोडाशादेः करणम् / तन्त्रे इति / प्रयोजकाप्रयोजकोभयसाधारणलक्षणस्य तन्त्रस्य समनन्तरमेव दर्शयिष्यमाणत्वात् / सर्वप्रयोजकसाधारणलक्षणे इत्यर्थः / त्रिकम् इति योगत्रितयम् / शेषितया इति / अङ्गितया प्रधानतयेति यावत् / प्रतिस्वम् इति प्रत्यात्मं प्रत्येकमिति यावत् / बहुच्छात्र-इति / बहवः छात्राः प्रयोजका हेतव इति बहुषु 15 दीपेषु प्रयोक्तव्येषु साधारण्येनैक एव प्रयुज्यते स्मेत्यर्थः / अप्रयोजकत्वेऽपि इति अपरस्याऽप्रयोजकत्वेऽपीत्यर्थः / पूर्वत्र सर्वेषां प्रयोजकत्वमिह त्वेकस्येति विशेषः / वा जिन इति अप्रयोजकस्य वा जिनस्य / आचमन- इति आचमनमाचामोऽवश्रावणमिति यावत् / विध्यन्तो यागः / अप्रयोजकत्वेऽपि पुरोडाशस्य तदर्थता विध्यन्तस्य प्रसङ्गात् सम्पन्ना / अथ च पुरोडाशार्थस्य विध्यन्तस्य स्वकोऽपि विधिरस्ति / 20 ननु वा जनस्येत्यप्रयोजकादस्य भेदः / जनस्य इति / अप्रयोजकत्वं विधिश्च स्वको जनस्याऽपि विद्यत इत्याशयः / एवमुत्तरत्राऽपि / एवमन्यदपि इति / . उदाहृतवाक्यगतश्रौतव्यतिरेकद्वारकार्थसमासगतश्रौततद्धितगतार्थसाम्यस्थित्या समासगतार्थतद्धितगतश्रौतसाम्यमपि / साम्य-इति / साम्यं साधारणो धर्मः / पुनः साम्य-इति। साम्यं सादृश्यमुपमेति यावत् / कमल-इति / अत्र सामानाधिकरण्येन समासे रूपकत्वापत्तेः 25 1. अत्रापीति इत्यारभ्य आचमनमाचामोऽवश्रावणमिति यावत् / इत्यन्तस्य स्थाने अत्रापीति इवशब्दप्रयोगेऽपीत्यर्थः / शेषितयेति / प्रधानतयेत्यर्थः / अप्रयोजकत्वेऽपीति अपरस्याप्रयोजकत्वेऽपीत्यर्थः / पूर्वत्र सर्वेषां प्रयोजकत्वमिह त्वेकस्येति विशेषः / इति पाठः ग 1 पुस्तके // 2 विरुद्ध // 3. अत्र प्रयोजकत्वे ग. 1 // 4. श्रुतिविहितत्वम् // 5. इतः प्रागधिकपाठस्य चिहं ग. 1 पुस्तके वर्तते / पाठस्तु न मिलति //